________________
१८०
व्याश्रयमहाकाव्ये
[मूलराजः] विद्वत्सङ्गमेपि पापिष्ठजनसङ्गनिरतस्येत्यर्थः । अतश्च पुंविदुषोपि नृषु मध्ये जानतोपि पापनिषेदुष: पापेन्यायकणि तस्थुषः । विद्वजनसङ्गत्या धर्माधर्मादिविवेकं जानतोपि पापिष्ठजनसङ्गातिप्रसङ्गेन पापकर्मनिरतस्यत्यर्थ । तथा रौद्राणि भीष्माणि रुद्रदेवतानि वा यान्यस्त्राणि शत्राणि तद्विषयं यद्वैदुष्यं नैपुण्यं तज्जषते सेवते यस्तस्य । गैद्रास्त्रबलिष्ठत्वात्पापकर्मण: केनापि निवर्तयितुमशक्यस्य चेत्यर्थः ।।
वेदुष्य । विदुषः । विदुषी । निषेदुषः । विदुषी । विदुष्मतः । उपेयुष्मतः। इत्यत्र "कसुप्मता च" [१०५] इत्युष् ॥ नृशंसतारण्यशुनोस्य यूनो जिघृक्षतो माघवनीं नु लक्ष्मीम् । मतिः शुनीपुच्छनिभातियूनी शल्यं मघोनी भजतो मघोनः ॥७३॥
७३. यूनस्तरुणस्यास्य ग्राहरिपोनृशंसतया क्रूरत्वेनारण्यशुनो वृकतुल्यस्य सतो मतिरस्ति । किंभूता । अतियूनी युवानमाविकान्ता । युवा हि प्रायो यौवनेन मदोद्धतः स्यात्तस्मादपि मदोद्धतेत्यर्थः । शुनी. पुच्छनिभा कुर्कुरीपुच्छवत्कुटिला च । उत्प्रेक्ष्यते । नास्य मतिर्मदेनोत्ताना वक्रा च किं तु माघवनी शक्रसत्कां लक्ष्मी जिघृक्षतो र्नु प्रहीतुमिच्छोग्वि । यो धुश्चतर्वादिस्थं फलं जिघृक्षति तस्योचफलोत्तारणायोत्ताना वाचाकुटयष्टिः स्यात् । अत एव मघोनी शर्ची भजतोपि । अपिरत्र ज्ञेयः । मघोन इन्द्रस्य शल्यं रतिसुखसागरावगाहकालपीन्द्रस्य तन्मतिर्हदयस्था शल्यमिव 'दुःखाकरोतीत्यर्थः ॥
१ एफ सङ्गति'. २ सी "णि त° ३ सीसी यदिदु ४ एफ नः पु ५ एफ् निवृत्तयि. ६ एफ शंससतारण्यशुनो नृसशत. ७ए प्रेक्षते. ८ एफ नु गृही. ९ एफ का च कुट. १० वी एफ दुःख क.