________________
[मूलरापा]
व्याश्रयमहाकाव्ये
१७०
सको जज्ञे । अस्म्यहं नु प्रष्टा युवां पृच्छामि । किमित्याह । नु इति वितर्के । युवां वितर्केथां कथमस्य ग्राहरिपोस्तष्टा विनाशकोहं स्यां भवे. यम । अथ भणिप्यथो यद्यन्याय्यप तच्छिक्ष्यतां किमनेन प्रभेनेत्याह । स्वरोपित आत्मसंस्थापिते जन ऊर्जयतीत्यूर्व सात्त्विकः पुमान्पुरुषगुणोपेतः कः प्रजिही: प्रहर्तुमिच्छेत् । न कोपीत्यर्थः । एवं चास्य वध्यत्वावध्यत्वरूपयोविरुद्धकार्ययोरुपस्थितयोः कि कार्यमित्यहं युवा
प्रष्टा ॥
तस्माद्यवां यद्विधेयं तद्वदतमित्याह । त्वमभ्यपास्पा गुरुणाभ्यजर्घास्त्वं चोशनस्त्वं रिपुहा महात्मन् । भियामधामन्मतिधाम कृत्यं युवां ब्रुवाथामनहर्विलम्बम् ॥६॥
६०. हे महात्मन् विपुलाशय भियां भयानामधामन्नस्थान मतिधाम बुद्धिगृह जम्बक रिपुहा त्वं गुरुणा वृहस्पतिना सहाभ्यपास्पा भृशमस्पर्धथाः । बुध्या त्वं वृहस्पतितुल्य इत्यर्थः। तथा हे महात्मन् मियामधामन्मातधाम जेहुल रिपुहा त्वमुशनस्त्वं शुक्रत्वमभ्यजर्घा भृशमगृध्यो भृशमकासः । बुद्ध्या त्वं शुक्रसम इत्यर्थः । तस्माद्युवां नास्त्यहो विलम्बो यत्र तत् शीघ्रं कृत्यं विधेयं श्रृंवाथाम् ॥
यज्ञ । यष्टा । विप्रेट् ॥ मृज् । स्रष्टा । राष्टिसृड्भ्याम् ॥ मृज् । मास | सः मृदभ्याम् ॥ राज् । राष्टि । सम्राट् ॥ भ्राज् । उद्भाष्टि । विभ्राङ् ॥ अस्य । परिभृष्ट । वर्गभृभ्याम् ॥ बेस्च् । ब्रष्ट्र प्रभासवृद् ॥ परिवाज् । परिमाद् । प्रकारान्त । निविष्टः । विद् । छादेशोपि शो गृह्यते । प्रष्टा । इत्यत्र "मंजसूत्र" [८५] इत्यादिना पः ॥
-
-
१ एफ बन्युफ. २ एफ तिसम . ३ सीसी नका. ४ एफ सु. ५ एफ गनीया. ६ डी ब्रम् ।. ७ ए यी यजर.