________________
[है०२.१.८६]
द्वितीयः सर्गः ।
पचतो विनाशयतो यो ताभ्यां यथा स्रष्टा हरो विधिकसमृड्भ्यां विधिब्रह्मा । कंसं माटि शोधयति विनाशयतीत्यर्थः । कंसमृड् विष्णु स्ताभ्यां सहितो विभ्राजते॥
विरुद्धकार्ययोरुपनिपाते हि मत्रः स्यादिति ते वृत्तद्वयेनाह ।
दन्तांशुजालैः परिभृष्टशवक्षोदैरिवोद्राष्टि सदः प्रकुर्वन् । स विद्पतिः माह तयोर्निविष्टः प्रभासद्दष्टनिदेशमैशम् ।।५८॥
५८. निविष्टः सिंहासन उपविष्टः स विट्पतिर्विशां पतिर्नुपस्तयोर्जम्बकजेहुलयोरेशं शांभवं प्रभासं तीर्थ वृश्चन्त्युपद्रवन्ति प्रभासवृश्चो ग्राहार्यादयस्तेषां भ्रष्टा छेदको यो निदेश उपदेशस्तं प्राह । तत्कालापेक्षया वर्तमानकालता । कीहक्सन् । दन्तांशुजालैरतिश्वेतत्वात्परिभृष्टशङ्खक्षोदैरिव परिभृष्टः परिपको यः शङ्खस्तस्य ये क्षोदाः क्षुद्यमाना अवयवा अर्थाद्रवीभूतास्तैरिव कृत्वा सदो मत्रमण्डपमुदुल्लसन्ती भ्राष्टि
जनं शोभा यस्य तत् । शङ्खद्रवविलिप्तमिवेत्यर्थः । प्रकुर्वन् । राजसभा हि शङ्खद्रवविलिप्ता स्यात् ।। कृतो मया ग्राहरिपुः स जज्ञे परं परित्राट्तडलकुलग्नः । मष्टास्मि तष्टास्य कथं न्वहं स्यां स्वरोपिते का प्रजिहीः पुमान् ॥५९
५९. ग्राहरिपुर्मया कृतः प्रतिष्ठितः । परं केवलं स ग्राहरिपुः कुत्सितं लग्नं राश्युदयो यस्य स कुलग्नः कुमुहूर्तजातोत एव न लज्जतेलमिर्लन्नः सन्परित्राजस्तपस्विनस्तक्षति हिनस्ति परिव्रातद तापसहि
१ सीसी यती'. २ एफ जम्बुक'. ३ ए बी सी एफ रिभ्रट'. ४ एफ मुल'. ५ ए सी डी कृतप्र.
२२