SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] ध्याश्रयमहाकाव्ये १४४ पहासं भणितय उदिता विजृम्भिताः । कथमित्याह । हे सख्यो हि यस्माद् यूयं कान्ता: सौन्दर्यपात्रं तत्तस्माद्वो युष्माकमिना भर्तारो वो युष्मानीयू रन्तुमागताः । वयं न कान्तास्तदिना न औज्झन् । वयमपि कान्ता एवेत्यस्मद्भर्तारोप्यस्मान् रन्तुमागता एवेत्यर्थः । अत एव हे सख्यो यूयं न सुप्ताः सकलायां निशि निरन्तररमणक्रियया न शयिता इति हेतोर्वो युष्माकमलसत्वमपाटवम् । वयं तु सुप्ता इति नः पटुत्वम् । यूयमिव वयमपि रात्रौ न सुप्ता अस्तिजन्यमेस्माकमप्यपाटवमस्तीत्यर्थः । तथा हि यस्माद्यूयं सुमृद्ध्यो भर्तृप्रसादेन सदा सुखितत्वात्सुकुमाराङ्गयस्तत्तस्माद्धेतोरेष प्राभातिकोपि भानुयुष्मान्दुनोति पीडयति न वयं हि मृद्ध्यस्तदेष नास्मांस्तुदति । यूयमिव वयमपि मृद्ध्य एवातोस्मानग्येष भानुस्तुदतीत्यर्थ इति । एतेन यथा वयमालस्यं गुक्त्वा तपं चावगणय्य सर्वप्राभातिककृत्येपूत्सहामहे तथा यूयमप्युत्सहध्वमिति सखीभिर्व्यज्यत इत्यर्थः ।। इति वः । इति नः । इत्यत्र “नित्यमन्वादेशे" [३१] इति नित्यं वसूनसौ ॥ तदिना वः । तदेष युष्मान् । तदिना नः। तदेष नासान् । इत्यत्र “सपूर्वात्"" [३२] इत्यादिना वा वस्नसौ ॥ पात्रं नयैतच्छुचयनदेतेनाधैं भजैनेन वलिं च देहि । जुहूचावानय तावदेते अथैनयोः प्रक्षिपसर्पिराशु ॥ २७ ॥ १ ए सी डी ख्यो हिर्यस्मा २ ए ‘स्माद्वो वो यु'. सी डी स्मादेतोयुप्मा, ३ एफ व रा. ४ एफ तज. ५ एफ मप्यस्माकमपा. ६ए सी डा हिर्यरमा . ७ प्रफ प्युत्साह.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy