________________
। हे० २ १.१. द्वितीयः सर्गः ।
१३३ पावित्र्यस्य तमसश्चापगमाञ्चतस्रो येषु तानि राजञ्चतसृणि शोभमानदिक्चतुष्यान्वितानि सन्ति । यतः किंमतेमुष्मिन । त्रयीतनुत्वात्तिसृणां श्रुतीनां वेदानां निधौ स्थाने । एतेनातिपाविन्योक्तिः । तथा भाभिः किरणैः कृत्वा मह तिसृषिविर्तते यस्तस्मिन सतिसि प्रथमोदितत्वात्किरणत्रयान्वित पश्चाच्च ता एव भाः सप्रकाशतरा बभूवुरिति भाभिः सुतिसरि सप्रकागतरकिरणत्रयान्विते ततो भाभिरुदश्चचतत्युदीयमानकिरणचतुष्टये क्षणाच भाभिश्चञ्चञ्चतसरि विकसत्तरकिरणचतुष्टयान्विते च किं चिदुद्गत इत्यर्थः । एतेन तमोपहार उक्तः । योपि नवार्कतुल्योभिनवनृपः प्रवर्धमानतेजाः श्रुतीनां निधिश्च स्यात्तस्मिन्प्रवर्धमानप्रतापत्वात्प्रतापांशेनौतिदुष्टनिग्रहपरे श्रुतिनिधित्वेन न्यायित्वाच्छिष्टपालके च सति जगन्ति गजदिक्चतुष्टयानि भवन्तीत्युक्तिः ।। इष्ट्यादिभिः सत्तिसरः सतिस्रो द्विजाः क्रियाभिर्जरसं निहन्तुम् । असज्जराः सज्जरसस्तथाधं जरामतीतं पुरुषं स्मरन्ति ॥ ११ ॥
११. तथेति पूर्वोक्तसमुञ्चये । असज्जरा अविद्यमानजरास्तरुणाः सन्नरसो वृद्धाश्च द्विजा ब्राह्मणा जरसं जरा निहन्तुम् । मुक्तय इत्यर्थः । जरामतीतं मुक्तमाद्यं पुरुपं विष्णुं स्मरन्ति । कीदृशाः । इष्ट्यादिभिर्यजनादिभि. क्रियाभिः षड्भिः प्रतिदिनकर्मभिः कृत्वा सत्यो विद्यमानास्तिस्रो येषां ते सत्तिसरः सतिस्रश्चोभयपदार्थमिलने सषपः । षट्कर्मयुक्ता इत्यर्थः । एतेन नैष्टिकत्वोक्तिः । यद्वा ।
द्विजो विप्रक्षत्रिययोवैश्येदम्भे विहंगमे ।
इति वचनाहिजा निर्दम्भा इत्यादिभिर्देवपूजादिप्रतिदिनक्रियाभिः
१ एफ तेस्मिन्. २ सी न्विता. ३ वी नापि दु. ४ एफ यादिभिः. ५ एफ थमील°, ६ सी डी स एषः,