________________
१३४
व्याश्रयमहाकाव्ये
[मूलराजः]
षड्भिरन्विता नैष्ठिकश्राद्धा मुक्तय आधं पुरुषं प्रथमजिनमुषभंस्मरन्ति। प्रभावे हि नैष्ठिकजना जाप्रतः स्वस्वदेवतां स्मरन्ति ॥
तिस्रः । चतस्रः । प्रियतिनः । प्रेयश्चतस्रः । इत्यत्र "त्रिचतुर" [1] इत्यादिना तिसृचतस्रादेशौ । स्यादाविति किम् । त्रिमूतौं । प्रेयश्रतुष्क श्रुतिभिः ॥
तिखः । चतस्र. । प्रियतिन । प्रेयश्चतस्रः । इत्यत्र "ऋतो र स्वरेनि" [२] इति ः ॥ अनीति किम् । निस्णाम् । राजञ्चतसृणि ॥ अन्ये तूपसर्जनयोखिसचतसृशब्दयोडौं धुटि चानिस्वरादौ रत्वविकल्पमिच्छन्ति तन्मते । सतिषि सुतिसरि । उदञ्चञ्चतेति चञ्चचतसरि । सतिस्रः सत्तिसरः ॥
जरस जराम् । सजरस. असजरा. । इत्यत्र "जराया जरस वा" [३] इति वा जरम् ।। स्नात्वाद्भिरीशैर्बहुराभिरात्तस्वद्भिर्द्विजेभ्यः परिकल्प्यते राः । युप्मासु नन्वल्पमिदं तथापि प्रसीदतास्मास्विति भाषमाणः॥१२॥
१२. शुचिभिर्दानं देयमिति स्मृतेरगिर्जलैः स्नात्वा शुचीभूय बहुराभिः प्रभूतधनरीश्वरैद्विजेभ्यो रा द्रव्यं परिकल्प्यते संप्रदीयते । किंभूतैः सद्धिः । उदकदानपूर्व दानं देयमित्यात्ताः पाणौ गृहीता: शोभना आपो यस्तैः । तथौद्धत्यरहितं प्रियक्सिहितं च दानं विदुषां श्लाघ्यमिति भाषमाणः । किमित्याह । नन्विति संबोधने । यद्यपि युष्मासु वहुदानावित्यर्थः । इदं दीयमानं स्वं स्वल्पं तथाप्यस्मासु विषये प्रसीदत वस्तुग्रहणेनानुग्रहं कुरुतेति । प्रभाते हीश्वरैर्दानं दीयते ।।
१ एफ शैवहु.
१ एफ ते नै . २ सी डी ष्ठिकेज'. ३ एफसः प्रिय'. ४ सीडीयचत. ५ए तस. ६ सी डी वाक्यरि. ७ सीडी भाष्यमा . ८ वी न च स्व.