________________
१३० ध्याश्रयमहाकाव्ये
[मूलराजः] इत्यादिसूत्रे बहुवचनात् । सर्वजगत्स्वित्यर्थः । तथालोकहानि दर्शनप्रतिघानीति । अथ तथा तस्यार्यम्णोर्घः पूजा तदर्घस्तस्मिन् । निर्मितससमीयम् । सूर्यार्थि शोभना आपो येषु तानि स्वाम्पि सरांस्यनुलक्ष्यीकृत्य या आपस्ता द्विजेन्द्रराददिरेञ्जलौ गृहीताः । एतेन त्वमपि प्रतापेनोदीयमानार्यमश्रीरसि । तस्मात्सर्वजगद्व्यापकान् आ: कष्टं लोकान् नतस्तमःप्रकृतीन ग्राहरिप्वादीन् दैत्याञ्जहि । येन द्विजेन्द्ररय॑स इति राज्ञो ज्ञापितम् । एवं च देवादनुवद्भिर्बन्दिभिरपि शंभूपदेशोवश्यं कर्तव्यतया राज्ञो ज्ञापितः ॥
कुर्वन्करैः स्वम्पि सरांस्युदेति तमिस्रपिण्डग्र इहोग्रतेजाः । क्रोष्टेव भीमान्विशति प्रभूतक्रोएनि कुञ्जानि तमिस्रपुञ्जः॥७॥
७. इहास्मिन्प्रभात उग्रतेजा उष्णांशुरुदेति । कीदृक्सन् । करैः किरणैः कृत्वा सरांसि स्वम्पि निर्मलजलानि कुर्वन् । तथा करैरेव तमिस्रपिण्डं तिमिरौघं असते तमिस्रपिण्डग्रः । अत एव क्रोष्टेव यथा शृगाल: प्रात: स्वभावत एव भीमान् भययुक्तः सन् प्रभूतक्रोष्ट्रनि बहु शृगालानि कुलानि वनगहराणि प्रविशति तथा तमिस्रपुजो रवितेजसो भीमान् कुञ्जानि प्रविशति । एतेन त्वमप्युग्रतेजाः प्रचण्डप्रतापोसि । तस्मात्तामसप्रकृतीन् ग्राहरिप्वादिदैत्यान् असमानश्चेत्त्वमुस्थितस्तदा ते भीमन्तः कुजेषु प्रवेक्ष्यन्तीति राज्ञो विजयो ज्ञापितः । अत्रं च तमिस्रशदद्वयोपादानेपि भिन्नवाक्यत्वान्न पुनरुक्तदोषः ।।
१ एफ रैः स्वापि २ ए °मिश्रमि'. ३ ए एफ मिश्रपु.
१ एफ सर्व ज° २ डी मित्ते स. ३ एफलक्षीकृ. ४ डी न त्व दि ५ एक "मि स्वापि ६ बी मिश्रपि. ७ एफ °ल: स्व. ८ वी मिश्रपु. ९ वा भीमानिव भी. १० एफ त्र त.