________________
[है० १.४ ८५ ] द्वितीयः सर्गः।
१२९ तत्पिता । दण्टोशना । पुरदंशा । अनेहा । सखा । इत्यत्र "ऋदुशन" [८४] इत्यादिना डा-अन्तादेश ॥ सज्यधन्वा । टिङ्मग्वानि । इत्यत्र "नि दीर्घ' [८५] इति दीर्घ ॥
अथ प्रबुद्धः स महान्नृपाणां श्रेयानयं स्वम हाते प्रहपी । द्विहा नृपूपाथ च वन्दिनोपि जगुर्वचांस्युक्तनवार्यमाणि ॥५॥
५. अथ स्वप्नदर्शनानन्तरं स मूलराजः प्रबुद्धः । कीदृश. । द्विड्डा शत्रच्छेदक ।अत एवं प्रतापै. सकललोकोझ्योतकत्वाच्च नृपूषा नरेपु रवितुल्यांत एव च नृपाणां मध्ये महान् गुरुस्तथायं स्वप्न. श्रेयानतिप्रअस्य इति हेतोः प्रही सन् । अत्र च महान् सर्वलोकेन पूज्य: श्रेयानतिश्नाव्यो द्विड्डा मन्देहाख्यदैत्योच्छेदकः पूषा प्रबुद्धः । उदित इत्य‘यों व्यत्यते । अथ प्रबोधानन्तरम् । चो युगपदर्थः । यदैव प्रवुद्धस्तदैव वन्दिनोपि । अपिः पुनरर्थे । मङ्गलपाठकाः पुनरुक्तो वर्णितो नवार्यमा नूतनविर्येपु तानि वचांसि वक्ष्यमाणानि जगुः पेठु. । एतेन गज्ञो गत्रिशेष इदं शुभस्वप्नं जातमिति त्वरितमभीप्सितकार्यसिद्धिः सूच्यते ।।
अथ प्रभातवर्णकानि वन्दिवचांस्येव त्रिचत्वारिंशता वृत्तैराह । जगन्त्यपूपाण्यभितः प्रसारीण्यालोकहानि प्रसभं तमांसि । हन्त्यर्यमाथाददिरे द्विजेन्द्रः सरांस्यनु स्वाम्पि तदर्घ आपः॥६॥
६. तमांस्यर्यमा प्रसभं बलाद्धन्ति । कीशि। प्रसारीणि । क । अपूषाणि रविरहितानि जगन्त्यभितः सर्वतः । अमित इति सर्वार्थे निपातः । न तसन्तः । उभयार्थे विहितत्वात्तसः। द्वितीया तु "गौणात्" [२. २. १३]
१ ए व स प्र. २ बी त्वान्नृपू. ३ एफ व्यसते. ४ एफ °पि पु.
१७