________________
हैं० १.४.७९ ] द्वितीयः सर्गः।
१२७ सुपथीम् । पथा। मथः । समभुक्षिकाम् । ऋभुक्षः । इत्यत्र “इन् डीस्वरे लु" [७९] इति-इनो लुक् । सर्गेस्मिनुपजातिच्छन्द.॥
अथ वृत्तद्वयेन शंभुः सामान्येनोपदेशमाह । बुद्ध्योशनन्नत्युशन प्रभाभिर्देवेषु भत्त्यानुशनश्चलुक्य । धुर्यत्यनद्वन् प्रियचत्वरेभिर्दनुरुपायैः श्रुतिभिः पुमर्थैः ॥२॥ धुर्योस्यनानिव मेतिचत्वा हरे(जस्त्वं तव के सखायः । चत्वारि पातस्तव दिङ्मुखानि भूयाननेहा स्मर देवकार्यम् ।।३।।
२, ३. हे चुलुक्य चुलुकवंशोद्भव बुद्ध्या कृत्वोशनन् दैत्यगुरुतुल्य । तथा प्रभाभिः कान्तिभिः कृत्वात्युशन शुक्रमतिकान्त । तथा देवेषु विपये भत्त्यान्तरप्रीत्या कृत्वानुगनोदैत्यगुरो देवेषु हितवांछकेत्यर्थ. । तथा धू: कार्यप्राग्भारो धूरिव दुर्वहत्वात् धूर्यानमुखं तत्र धुर्यत्यनद्दन्ननहाहं वृषमतिकान्त । तथैभिः सर्वजनप्रत्यक्षरित्यर्थः । वर्णैाह्मणक्षत्रियवैश्यशूद्रैरुपायैः सामदानभेददण्डैः श्रुतिभिः ऋग्यजु:सामाथर्वभिः पुमथैर्धर्मार्थकाममोक्षश्च कृत्वा प्रियाश्चत्वारो यस्य हे प्रियचत्वः प्रियवर्णादिच. तुष्टयेत्यर्थः । एतेन जनानुरागादिका सर्वसंपदुक्का । चत्वारि दिङ्मुखानि सकलभूमिमित्यर्थः । पातो रक्षतः सतस्तव भूयाननेहा प्रर्भूतः कालोभूत् । अथ देवकार्य स्मर । ननु कियन्मात्रोहं का च मे सहायसंपद्यदेवंविधं कार्य भगवता मय्युपदिश्यत इत्याह । असि त्वं हरेश्चतुर्भुजस्य चतुरो भुजानविक्रान्तोतिचत्वाः पञ्चमो भुजो वाहुः । एतेन नारायणांशत्वेनातिपराक्रमित्वमुक्तम् । अतएव मे ममानवानिव वृषभ इव त्वं धुर्यः सर्वकार्यप्राग्मारवहनक्षमः । अतश्च तव के सखायः का तव सहायापेक्षेत्यर्थः ।।
१ एफ ॥ ३ ॥ युग्मम् । हे. १ डी एफ चुलस्य. २ ए एफ चुलक. ३ डी 'नो देवगु. ४ बी धूरेव. ५ एफ षभम. ६ ए तो रक्षकस्य स. ७ एफ भूतका. .