________________
[मूलराज.]
व्याश्रयमहाकाव्ये
११२
मुनेः साधोश्च सत्कर्ता मदं हर्ता कले रिपोः ।
अद्भुतैरेप विभवोर्विशेष चकार गोः ॥ १८४ ॥ १८४. एष राजाद्भुतैराश्चर्यकारिभिर्विभवैः सदा प्रवर्तमानमहोत्सवादिलक्ष्मीभिः कृत्वा द्योः स्वर्गात्सकाशाद्गो मेविशेषमतिशयं चकार । ननु कलो प्रतिक्षणं पदार्थानां हीयमानत्वात्कुतोद्भुतविभवसंभव इत्याह । रिपो. शत्रभूतात्कले: कलिकालात्सकाशान्मदं सांप्रतमीतिरूपा मदा
व सर्वत्रास्खलितेत्येवं गर्व हर्ता । यतो मुनर्निःसङ्गस्य साधोश्च शिष्टजनस्य सत्कर्ता रक्षादानादिना सन्मानकः । यथो यथासौ मुनीन्साधुंश्च सच्चके तथा तथा कलि: क्षीणस्ततश्च महा भूः स्वर्गादपि विशिटाभूदित्यर्थः ॥
कलेः । मुने. । रिपोः । साधोः । योः । गोः। इत्यत्र “एदोद्याम्[३५] इत्यादिना ढसिडसो रेफः ॥
पत्युर्जयश्रियः पत्युः सख्युः सख्युर्बिडौजसः । एनोलून्युरुमाभर्तुर्नन्तुरस्मादभूनयः ॥ १८५ ॥ १८५. अस्मान्नुपान्नयो न्यायोभूत् । यतः पतिमिच्छति क्यनि दीघरपे पतीयति किपि यलोपे च पतीस्तस्याः पत्युः स्वामिनमिच्छन्त्या जयधिय. पत्युः शत्रुच्छेदेन नायकात्। एतेन सैन्यकोशाद्युत्कृष्टसंपदा महद्धिकत्वमुक्तम् । तथैनोलून्युः पूर्ववत्क्यनि किप्येनोलेनि पापच्छेदमिच्छतात एव सख्युः सखायमिच्छतो विडोजस इन्द्रस्य सख्युयोगा
-
-
१ एफ 'न. । म'. २ एफ शत्रभू. ३ एफ 'न्मन्द सा. ४ सी टी सम्मान • ५ सी डी पासो ६ एफ व शि. ७ सी डी पि वोः प्वय व्यजने ३२ पति'. ८ एफ शिपि यलोपे जूनि. पा. ९सी लूनीस्तस्यैनोवन्यः पा.