________________
[है. १.४.३४] प्रथमः सर्गः ।
१११ ग्रहण ३ धारण ४ ऊह ५ अपोह ६ अर्थविज्ञान ७ तत्वज्ञानाना ८धीगुणानां धाम स्थानमभूत् । अत एव च पञ्चातिक्रान्ता ये तेषामतिपश्यां षण्णां संधि १ विग्रह २ यान३ आसन ४ द्वैधीभाव ५ संश्रयाणां ६ गुणानां भूर्यथोचित्यं प्रवर्तनादुत्पत्तिस्थानमभूत् । तथा चतुर्णामृग् १ यजुः २साम ३ अथर्वणानां ४ छन्दसां वेदानां च भूः पाठेनाध्येत्रध्यापकसाहाय्यकरणादिना चोत्पत्तिस्थानमभूत् । निगृहीतान्तरशत्रुर्हि सुस्थचित्तत्वादुद्धिपात्रं स्यात् । धीमांश्च बुद्धिप्रकर्षेण संध्यादीन् सम्यग् नियुते शारपाठादि च करोति ।।
चतुर्णाम् । पण्णाम् । इत्यत्र "संस्यानांर्णाम्" [३३] इति नाम् ॥ तसंबन्धिविज्ञानादिह न स्यात् । अतिपमाम् ॥ सख्यानामिति किम् । द्विपाम् ॥ बहुवचन व्यायर्थम् । तेन भूतपूर्वनान्ताया अपि। अष्टानाम् । एतेनैव नान्तसंख्याया मृलोदाहरणमपि सूचितम् ॥
अतित्रयाणां वर्णानामतित्रीणामुदन्वताम् । प्रभुरेप त्रयाणां च पुमर्थानां प्रवर्तकः ॥ १८३ ॥ १८३. एष राजा त्रयाणां पुमर्थानां प्रवर्तकस्त्रीधर्मार्थकामान्यथाचितं प्रयुखानः सन् प्रभुरभूत् । केपाम् । अतित्रयाणां त्रीनतिकान्तानां चतुर्णी वर्णानां ग्राह्मणक्षत्रियवैश्यशूद्राणां न्यायेन पालनात्तथा । त्रयाणां चेत्यत्र चः समुच्चयार्थो भिन्नक्रमे । अतित्रीणां चतुर्णामुदन्वतां च पूर्वपश्चिमदक्षिणोत्तराब्धीनां च चतुर्दिग्विजयात् ।।
प्रयाणाम् । इत्यत्र "प्रेमयः" [३४] इति नाम् श्रेस्रयादेशश्च ॥ तत्संबन्धि. विज्ञानादिह न स्यात् । अतित्रीणाम् ॥ अतस्संवन्धिनः स्थादित्येके । भतित्रयाणाम् ॥ १ए कः ।। १८३ ॥ स्त्रीन्ध'. १ सी डी येपा. २ सी जुः२ अ'. ३ एफ 'पूर्वायाना. ४ एफ ख्यामू.