________________
[है० १४.३७.] प्रथमः सर्गः।
११३ दिधर्मानुष्ठानविधानेनाह्वादकत्वान्मित्रात्तथोमाभर्तुर्हरस्य नन्तुरेतेन विशेपणत्रयेणातिधार्मिकत्वमुक्तम् । महर्द्धिको धार्मिकश्च न्यायमेव करोति ॥
खि । सख्युरस्मात् ॥ ति । पत्युरस्मात् ॥ खी ती । सख्युर्विदौजसः । पत्युर्जयध्रियः । इत्यग्र "चितिचीतीय उर" [३६] इति इसिडसोरुर् ।। लन्युः । इत्यत्र "क्तादेशोपि" [२ १.६१] इति नस्यासत्वात्तीरूपत्व उर ।। नन्तुरस्मात् । भर्तुः । इत्यत्र "ऋतो दुर्" [३७] इति डर ।।
सुधास्वसारं वोढारमतिनप्तारमुष्णगोः ।
अमुं भूपमशास्तारं लब्ध्वा मुमुदिरे प्रजाः ॥ १८६ ॥ १८६. अमुं भूपप्रयास्तारं राजाधिराजं लब्ध्वा प्रजा मुमुदिरे । यत: सुधायाः स्वसा भगिनी लक्ष्मीद्वयोरप्येकस्मिन्नब्धावुत्पन्नत्वात्तां वोढारमिव वोढारं सम्यक्प्रजापालनादिना विष्णुतुल्यमतएवोष्णगो रवर्नतारं पौत्रमतिकान्तम् । सूर्यस्य पुत्रो मनुस्तस्य पुत्र इक्ष्वाकुः सूर्यस्य पौत्रस्तस्मादपि नीतिप्रजापालनादिनाधिकमित्यर्थः । अथवातिनप्तारमतिशयितं पौत्रं लब्ध्वा । प्रकृष्टपौत्रजन्मनि प्रजा लोका मोदन्ते ।।
शंभोः क्षत्तारमाज्ञायां त्वष्टारमिव कौशले । अमुं होतारः पोतारो नेष्टारस्तुष्टवुः क्रतौ ॥ १८७॥
१८७. होतारः पोतारो नेष्टारश्च ऋत्विग्विशेषाः फतौ यज्ञेमुं नृपं तुष्टुवुः । यत: शंभोईरस्याज्ञायां विषये क्षत्तारं प्रतीहारमिव । यथा शंभो
१ एफ तारो पो.
१ एफ येण धा. २ सी डी कश्च. ३ एफ ढार स. ४ सी डी पि प्र. ५ एफ लोको मोदते .