________________
[मूलराजः]
व्याश्रयमहाकाव्ये
दातृष्वेकतमस्मादेकतरस्माच्च देस्रयोः ।
कतमस्मिन्सर्वतमे देशेस्मानाभ्यगायशः ॥ १४१ ॥ १४१. अस्मान्नृपात्सकाशात्सर्वतमेतिशयेन सर्वस्मिन्देशे कतमस्मिम्कस्मिन् यशो नाभ्यगान ययौ । सर्वशब्दोत्र तमप्यसंकुचितवृत्ति. स्तता जगत्रयेप्यस्य यशो विस्तीर्णमित्यर्थः । यतो दातृपु मध्य एकतमस्मादसाधारणात्तथा रूपातिशयेन दस्रयोरश्विनीकुमारयोर्मध्य एकतरस्मादन्यतरस्मात् । दानरूपातिशयेन हि प्रसरति दिशो दिशं यशो नरस्य ।
त्वस्माद्याच्आपराविन्द्रोपेन्द्रौ दानैकशालिनः । नेमस्मायपि कैल्पेते नास्य हेतुं गुणवतम् ॥ १४२ ॥ १४२.गुणत्वतं हेतुम् । त्वच्छन्दः समुच्चयार्थः । शौयौदार्यादिगुणसमूहन हेतुनन्द्रोपेन्द्रौ शक्रविष्णू अस्य राज्ञो नेमस्मायपि खण्डायाप्यर्थीद्गुणप्रकलायापि न कल्पेते नालं भवतः । यतो दानेनैकेनाद्वितीयेन न तु याच्या शालते शोभत इत्येवंशीलो यस्तस्य । प्रभूतगुणैरपीन्द्रोपेन्द्रो दानैकशालिनोस्य गुणांशमात्रस्यापि तुल्यौ न भवत इत्यर्थः । यतस्त्वस्मादन्यस्माद्याच्यापरौ याचकौ । इन्द्रो हि बलिप्ठे बलिदैत्येप्रभवन् विष्णुं बलिबन्धं ययाचे विष्णुश्च बलिं त्रिपदीमिति । याच्ञायां च सर्वे गुणा भंसन्ते । उक्तं च ।
देहीति वचनं श्रुत्वा दहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकर्तियः ।। १ ॥
१ ए दप्रयो. ।। २ बी कल्प्येते.
१ सी स्मि य. एफ 'स्मिन्कतरस्मि'. २ बी शोदशय'. ३ सी डा "शो नृपस्य. ४ वी कल्प्येते. ५ ए बी डी लिवध य', सी 'लिनन्ध य । ६ वी चेति वि. ७ वी सी डी या स'