________________
[है. १.४.६.]
प्रथमः सर्गः। गुणास्तावद्यास्तावद्यावाचेत नो नरः ।
प्रार्थनायां पुनस्तेपि प्रणश्यन्ति हता इव ॥ २॥ पूर्वस्माच परस्माच समस्मादसमाद्गुणैः । उत्कृष्टो राजकाहत्ते सिमस्मै स्मैप विस्मयम् ।। १४३ ॥ १४३. एप राजा सिमस्मै सर्वस्मै लोकार्य विस्मयमाश्चर्य दत्ते स्म । यत. पूर्वस्माञ्चैतदपेक्षया जन्मना प्रथमात्परत्माच जन्मना पश्चिमान किं बहुना समस्मात्सर्वस्माद्राजकान्नुपौघादुत्कृष्ट उत्तमः । ननु तद्राजकं विगुण भविष्यति तन्मध्ये चासौ केनाप्येकेन गुणेन युक्त उत्कृष्टो भविप्यति यथान्धेषु काणोपि भातीति निर्गुणत्वनिगकरणायाह । गुणै. गौर्यादिभिरसमादसाधारणात् ॥
दक्षिणस्मादुत्तरस्मादपरस्मात्तथान्यतः।
कृष्णायास्मायवरस्मायधरस्मिन्न को नतः ॥ १४४॥ १४४. दक्षिणस्मादुत्तरस्मादपरस्मात्पश्चिमात्तथान्यतः पूर्वस्माञ्च देमादागत्याम्मै गन्धरस्मिन्नधोदेहो पादयोः को न नतो यतः प्रजारक्षाप्रतापादिनावरस्मै कृष्णाय द्वितीयाय विष्णवे । कृष्णाय हि सर्वदेशेभ्य आगत्य जन. प्रणमति । एतेनास्य राज्ञः सर्वजगदशीकार उक्तः । दक्षिणस्मादित्यादी कुसूलात्पचतीत्याढाविवोपात्तविपयेपादाने पञ्चमी ॥
परस्त्रायास्पृहयालु स्वस्मायश्लाघनः सदा । दक्षिणाय द्विजस्खाय स्वस्मायिव ददावसौ ॥ १४५ ॥ १४५. असौ राजा दक्षिणाय प्रवीणाय द्विजस्वाय ब्राह्मणज्ञातये खस्मायिवात्मीयाय स्वजनायेव सदा गोधनादि ददौ । दाताप्यन्यायेन
१ एफ चाचति नो. २ सी यमा'. ३ एफ ष्यतीति.