________________
[मूलराजः]
८८
व्याश्रयमहाकाव्ये विश्वस्मादत्यशेतासौ विश्वस्मायुपकारकः । किंसर्वस्मै परसर्वस्मै च यः कामदोभवत् ॥ १३६ ॥ १३६. यो विश्वस्मै हीनायोत्तमाय चोपकारको रक्षादानादिनोपकर्ता सन किसर्वस्मै कुत्सितसर्वस्मै हीनलोकाय परसर्वस्मै च प्रकटसर्वस्मायुत्तमलोकाय च कामदो मनोरथपूरकोभूदसौ स मूलराजो विश्वस्मात्सर्वलोकादत्यशेतोत्कृष्टोभूत् ॥
तमस्तोभिभवः कालेप्यसर्वस्मिन्महोदयः । हीनतास्मादुभौ हेतू उभयस्मिन् रवौ विधौ ॥ १३७ ॥
१३७. उभौ हेतू "सर्वादेः सर्वाः" [२.२.११९] इति प्रथमाया द्वितीयाया वा द्विवचनम् । द्वाभ्यां कारणाभ्यामस्मान्नृपात्सकाशादुभयस्मिन् द्वितये हीनता न्यूनत्वमासीत् । कस्मिन्नभयस्मिन्नित्याह । रवी सूर्य विधौ चन्द्रे च । कौ हेतू इत्याह । तमस्तो राहोः सकाशादभिभवो ग्रहणलक्षणपराभवैः । अपि: समुच्चये । तथासर्वस्मिन्काले महोदयो न सर्वस्मिन्काले महान् जगत्प्रकाशक उदयः स्यात् । रवेदिन एव चन्द्रस्य च रात्रावेव महोदयात् । अस्य च राज्ञस्तमस्तोज्ञानान्नाभिभवो राज्यलक्ष्मीप्रतापादीनां सदा वृद्ध्या सदा महोदयश्चेति ॥
अन्यस्मै भास्करायान्यतरस्मै विष्णुशक्रयोः । रुद्राणामन्यतमस्मै नमोस्मै चक्रिरे नृपाः ॥ १३८॥ १३८. नृपा अस्मै मूलराजाय नमो नमस्कारं चक्रिरे यतोन्यस्मै
१ डी दतिशे . २ एफ् स्तोविभ.
१ एफ स्मै चोत्त. २ सी दभिशे'.डी दतिशे'. ३ बी डी एफ ः प. ४ सी डी वः स. ५ एफ नान्न परिभवो राजल'.