________________
[है. १.४.६.]
प्रथमः सर्गः। एषु । एपाम् । एभिः । एभ्यः । नयनयोः । इत्यत्र "एद्वहुस्भोसि" [४] इत्येत् ॥ बहिति किम् । अस्य । स्भोसीति किम् । गृहान् ॥ अतं इत्येव । गुरुषु । पित्रो. ॥
जनेन । अतिजरेण । सर्वस्य । प्रत्यासन्नजरस्य । इत्यन्न "टाइसोरिनस्यौ" [५] इतीनस्यादेशी । अत इत्येव । अजरसा । दूग्जरसः । अत्र परत्वान्नित्यत्वाच प्रार्गव जरसादेशे कृतेकारान्तत्वाभावः । अन्ये तु प्रागेवेनादेशं संनिपातलक्षणस्यानित्यत्वाश्रयणात्पश्चाजरसादेशं चेच्छन्त. स्फुरज्जरसिन इत्यपि मन्यन्ते ॥ मोक्षाय । सग्रहात् । इत्यत्र “हेहस्योर्याती" [६] इति यादादेशौ ॥
सर्वस्मै प्रियकर्तास्मिन् सर्वस्मादुज्ज्वलो गुणैः ।
नृपः श्रीमूलराजोभूचौलुक्यकुलचन्द्रमाः ॥ १३५ ॥ १३५, अधात्र काव्ये वर्णनीयेषु चौलुक्येपु मध्ये प्रथमो यो राजात्र पुरेभूत्तमासर्गान्तमुपश्लोकयति ॥ मूले चौलुक्येष्वादावत्र पुरे राजा मूलराजो यद्वा मूले नक्षत्रे राजा चन्द्रो मूलराजस्तत्र जातत्वान्मूलराजः श्रिया युक्तो मूलराज: श्रीमूलराजो नाम नृपोभूत् । कीदृक् । गुणैः परोपकरित्वादिभिः कृत्वा सर्वस्मात्समस्तलोकासकाशादुज्वलोत एव सर्वस्मै प्रियकर्ता वाञ्छितकारी । अत एवं च चौलुक्यकुलचन्द्रमाः । चन्द्रमा अपि गुणैः कान्ततादिभिः सर्वस्मादुज्वलोत एव सर्वस्मै प्रियकर्ता । तथा श्रिय आवासत्वाच्छियो नक्षत्रपतित्वान्मूलस्य मूलनक्षत्रस्य च राजा प्रभुः स्यादित्युक्तिः ॥
१ एफ भ्यः अनयो.. २ एफ त एव किम् । गु.३ एफ °ध्ये यःप्र.४ सीडी एफ मो रा. ५ एफ मूलन. ६ वी सी डी ले मूलन. ७सी जा स्त. डी जा तत्र. ८ एफ °नामा नृ. ९ एफ °णैश्च प. १० एफ ममस्तलोकसका. ११ सी डी एफ व चौ. १२ एफ °न्तत्वादि. १३ एफ “लन.