________________
८६
व्याश्रयमहाकाव्ये
[मूलराजः भक्त्या गुरुषु पित्रोश्च मोक्षाय ज्ञानसंग्रहात् । जनेनाजरसाप्यत्र स्फुरज्जरसिन स्थितम् ॥ १३३ ।। १३३. अत्र पुरे जनेनाजरसापि जरावर्जितेनापि तरुणेनापि स्फुरन्ती जग यस्य तेन स्फुरज्जरसिन वृद्धेन स्थितम् । हेतू आह । गुरुपु धर्माचायेषु पित्रोश्च मातापित्रोश्च विपये भक्त्या विनयेन तथा मोक्षाय यद् ज्ञानं धर्मशास्त्रपरिज्ञानं तस्यैव न तु संसारहेतुकामशास्त्रादिज्ञानस्य यः संग्रहो धारणं तस्माच्च । परिणतानां हि प्रायेण धर्मार्थितया विनयो मुक्तिहेतुज्ञानसंग्रहश्च स्यान्न तु यूनां मदमदनवाहुल्यात् ॥
सर्वस्य दूरजरसः प्रत्यासन्नजरस्य च । योगिनातिजरेणेह स्पर्धाध्यात्मे सदा लयात् ॥ १३४ ॥ १३४. इह पुरे सर्वस्य दूरजरसस्तरुणस्य प्रत्यासन्नजरस्य च वृद्धस्य च । कर्तरि पष्टी। अतिजरेण योगाभ्यासप्रकर्षाजरामतिकान्तेन योगिना सह सदा स्पर्धा जयेच्छास्ति । कस्मादित्याह । आत्मनि विभत्यर्थेव्ययीभावे "अनः" [७.३.८८] इत्यति समासान्ते चाध्यात्म तस्मिन्नात्मनि यो लयः सर्वथा बाह्येन्द्रियनिरोधेन तदेकाग्रचित्तता तस्मात् "गम्ययप" [२.२.७४] इत्यादिना पञ्चमी। लयमाश्रित्य यादृग् महाध्यानं योगीन्द्राः कुर्वन्ति तागत्यो लोकः सर्वोपि करोतीत्यर्थः । अध्यात्म इत्यत्र सामान्यविशेषभावेन द्वौ भावौ यथासन आस्ते इत्यत्रासनं सामान्यविशेपभिमम् । अध्यात्म इति ह्यात्मनि यो भावस्तत्र लय इति विज्ञायते । तत्र सामान्यभावो वृत्तावन्तर्भूतस्तं प्रत्याधारभावश्च योसौ लयो विशेपमावः स वृत्तौ नान्तर्भूतस्तं प्रति सामान्यभावस्याधारभावति तत्र सप्तमी भवति ॥
१ सी डी शाल प. २ सी डी दन. ३ सी डी एफ ४ सीरीस्त अत्यं. ५ टी वधे'.
सलो.