________________
___[है. १.४.३.] प्रथमः सर्गः।
अमीभिरेभिरिमकरमुकैश्च महात्मभिः । भात्यदोतिजरैः सिद्धरत्रेति जगदुर्जनाः ॥ १३१ ॥ १३१. अत्र पुरे जनाः सिद्धाद्भुतगुणरश्चितत्वेनान्यजनानां पुरो जगदः । कथमित्याह । अमीभिः प्रत्यक्षविप्रकृष्टैरेभिः प्रत्यक्षसमीपतरिमकैरल्पैरज्ञातैर्वा प्रत्यक्षसमीपतरैरमुकैश्चास्पैरज्ञातैर्वा प्रत्यक्षविप्रकटैश्च महात्मभिरतिजोगप्रभावेण जरामतिक्रान्तैः सिद्धैविद्यासिद्धैः कृत्वादः पुरं भाति पवित्रीभवतीत्यर्थ इति ॥
लोकाः। अर्थकामाभ्याम् । धर्माय । इत्यत्र "मत आ"[१] इत्यादिना-आकारः॥ मत इति किम् । अभीप्सवः ॥ स्यादाविति किम् । मुक्तये ॥
सिद्धः । अतिजरैः । इत्यत्र "भिस ऐस" [२] इति भिस ऐस् ॥ एसादेशेनैव सिद्ध ऐस्करणं संनिपातन्यायस्यानित्यत्वज्ञापनार्थम् । तेन अतिजरसैः । इत्यपि सिद्धम् । अत इत्येव । योगिभिः ॥
इमकैः । अमुकैः । इत्यत्र “इदम्" [३] इत्यादिना मिस ऐस् ॥ अक्येवेति किम् । एभिः । अमीभिः ॥
एभिर्नयनयोः प्रीतिरेषां श्रीरेभ्य उत्सवः ।
एषु धर्म इति श्रीमद्गृहान् को नास्य वर्णयेत् ॥ १३२ ॥ १३२.अस्य पुरस्य श्रीमद्गृहानाढ्यानां वेश्मानि दारान्वा को न वर्णयेत् । कथमित्याह । एमिः श्रीमद्हैः कृत्वा सौन्दर्यातिशयान्नयनयोर्लोकेक्षणयोः प्रीतिराहदः स्यात्तथैषां श्रीलक्ष्मीर्वर्तते तथैभ्यः सकाशादुत्सवो वसन्तोत्सवादिमहः प्रवर्तते तथैषु धर्मो देवपूजादानादिरस्ति । भोगधर्मफलत्वेनैषां लक्ष्मीन निरर्थकेत्यर्थ इति ।।
१ सी डी ।। सि. २ डी सिद्धः कृ. ३ सी वित्रीत्य'. एफ् वित्रं म. ४ एफ आः स्यादावित्या. ५ ए °ति मु. ६ ए ऐस् एसा. एफ ऐ. सिति एसा. ७ वी एफ दिमहः. ८ वी सी डी एफ रर्थके.