________________
८२ व्याश्रयमहाकाव्ये
[मूलराजः] कस्मात्पापट्टि दोष्ष्वात्ता प्रश्ने बम्भषि किं न हि ।
लज्जा वृश्चेति मुग्धायां शिक्षेह प्रियसंनिधौ ॥ १२६ ॥ १२६. इह पुरे प्रियसंनिधौ सति मुग्धायां विषये शिक्षा । अर्थात्सखीनाम । कथमित्याह । हे सखि दोष्पु वाहुष्वात्ता भर्ना गृहीता सती कस्मात्पाटिल कुटिलं गच्छसि पत्युः सकाशाकिमिति वक्रीभूय यासीत्यर्थः । तथा प्रश्ने पत्युः पृच्छायां किं किमिति न हि बम्भषि नैव भृशं भाषसे । तथा लज्जा वृश्च छिन्द्धीति । मुग्धायामित्यत्र जातावेकवचनम् । अन्यथा दोष्ष्वित्यत्र बहुवचनं नोपपद्येत ।
चवर्गेण । वृत्र लज्जाम् ॥ षकारेण । दोष्षु ॥ टवर्गेण । पापट्टि ॥ गम्भषि । इत्यत्र "सस्य शपौ" [६१] इति शपौ ॥ प्रभे । अत्र "न शात्" [१२] इति जो न ॥
नगेट्तुङ्गत्वलक्ष्मीजुट्थूत्कृतद्विड्युलिध्वजैः।
नागेड्ड धवलैः शीविभ्राद सालोत्र सर्वतः ॥ १२७॥ १२७. अत्र पुरे साल: कोट्टः सर्वतः सर्वासु दिक्ष्वस्ति । कीदृग् । नगेट् गिरीशो मेरुस्तस्य या तुङ्गत्वलक्ष्मीरोन्नत्ये श्रीस्तां जुषते सेवते यः सः । तथा धुलिहोत्युच्चप्राकारशिरःस्थत्वेनाकाशस्पृशो ये ध्वजास्तैः कृत्वा थूत्कृतद्विट् थूत्कृतमत्र प्रस्तावादश्वफेनस्तस्य द्विट् जेता । अतिश्वेतकेतुरित्यर्थः । यद्वा थूत्कृतं थूत्करणं द्वेष्टि
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ।
आक्रोशत्यवजानाति कदर्थयति निन्दति । १ सी डी अस्मा'. २ एफज्जा व्रश्चे'. ३ ए गेडुङ्ग. ४ एफ जुड्यू. १ सी डी ती अस्मा. २ सी डी किमपि व. ३ सी डी एफ नैव भू. ४ एफ व सौ. ५ वी त्यस्य श्री. ६ सी डी तम. ७ एफ तुभिरि ।