________________
[१० १.३.६०.] प्रथमः सर्गः ।
मूर्धन्यत्वं शश्वदृवट्ठवड्डवडवण्णवत् ।
सूनृतस्फुटवक्तृणामीट्टे को नेह कोविदः ॥ १२४ ॥ १२४. इह पुरे सूनृतस्फुटवक्तृणां सत्यप्रकटवादिनां मूर्धन्यत्वं मूर्धस्थायित्वमन्यस्थानस्थाखिलसूनृतस्फुटवक्तृभ्यः प्रधानतामित्यर्थः । कः कोविदो विद्वान्ने । कि तु सर्वोपि वर्णयतीत्यर्थ. । यथा टस्य ठस्य डस्य ढस्य णस्य च मूर्धस्थानभवत्वेन मूर्धन्यत्वं मूर्धस्थानभवत्वं कोविदो वैयाकरण अरवर्णटवर्गरपा मूर्धन्या इति शिक्षापदेन वर्णयति । शब्दश्लेषेणोपमा ।
तन्वण्डापरतामग्रे कुर्वण्णकुटिलालकाः।
स्मरोस्मिण्ढौकितधनुर्विश्वमट्टितुमड्डुति ॥ १२५ ॥ १२५. स्मरी विश्वमट्टितुं हिण्डितुं विजययात्रां कर्तुमित्यर्थः । अइत्युद्यच्छति । कीहक्सैन् । अस्मिन्पुरे वर्तमाना णकुटिलालका णकारवत्कुटिलकंशी: स्त्रीर्जगज्जयायाने कुर्वन् । एतेन सैन्यसंपदुक्ता । तथा ढौकितं जगज्जयाय प्रगुणीकृतं हस्ते गृहीतं धनुर्येन सः । धनुशब्दोत्रोदन्तः । सान्ते तु धन्वनादेश: स्यात् । एतेनास्त्रसंपदुक्ता । अत एव डामरनां प्रतापप्रचण्डिमानं तन्वन् विस्तारयन् । योपि सेनाशम्प्रप्रतापसंपदन्वितो विजिगीपुर्नृपः स्यात्स विश्वं जेतुमद्दतीति ॥
शकारेण योगे । उघशलत् । अस्मिथ्शुशुभिरे ॥ चवर्गेण । उच्शलचामर । स्फुरच्छन्न । उज्वल । शश्वज्झपित । तनुडुवे । प्रशाञ्चरञ्जनम् । प्रीण झपश्च ॥ पूर्वेण धवर्गेण । यात्रा । यज्ञ । राज्ञा ॥ पूर्वेण शकारेण परेण च पकारेण प्रतिपेधो वक्ष्यते । पूर्वेण तु पकारेण । पिष्टम् ॥ टवर्गेण । शश्वट्टवटवड्वट्ठवण्णवत् ॥ अह । अति ॥ अहि । अहितम् । तन्वण्डामरताम् । अस्मिण्डौकित । कुर्वण्ण ॥ पूर्वेण टवर्गेण । ईट्टे । इत्यत्र "तवर्गस्य" [१०] इत्यादिना वर्गटवर्गादेशौ ॥
१ एफ स्य मू. २ सीसी सन् । पुरे ।. ३ ए °षु नृपः. ४ एफ चटवर्गा.