________________
ब्याश्रयमहाकाव्ये
[मूलराजः
१२२. अत्र पुरे विद्वान् । जातावेकवचनम् । पण्डितजातिश्छात्रेषु विपये तत्तद्यद्यच्छात्रा अध्येतुमिच्छन्ति तत्तव्याकरणादि बुडुवे व्याख्यदतो ज्ञायते गीरिव स्वयं मृर्ता सरस्वतीव । कीटक सन् । प्रशान् विद्यावलेपादिरहितस्तथा चरन्नतिभूरित्वेन दूरस्थानां छात्राणामध्ययनान् प्रमाद्यतामुत्साहनाय तन्मध्ये विचरंस्तथा बकुटिलाशयान । बकारवत्कुटिलचित्तान् परम्परमात्सर्यादिना कलहादि कुर्वतरछात्रानित्यर्थः । झपन् प्रलम्बकम्बया ताडयन्नत एव भव्यरीत्या पाटनेन जनं प्रीणन् । गीरपि प्रशान्ता सर्वत्र स्वेच्छया विहरति बकुटिलाशयान कुवादिनो झपति निराकरोति जनं प्रीणयति तत्तदनेकविधं शास्त्रजातं व्याख्याति च । यद्वान पुरे चरन् कणवृत्त्यै भ्राम्यन् सन् विद्वान्वेदोपाध्यायश्छात्रेषु वटुपु तत्तद्यधध्येतुमिच्छन्ति तत्तद्वेदशास्त्रं बुहुवे वरन्याठितवानित्यर्थः । वेदपाठो हि द्विजैभिक्षाभ्रमणं कुर्वनिविधीयते । शेष पूर्ववत् ।।
स यज्ञपुरुषः स्पर्धामस्मिन् राज्ञा कथं वहेत् । द्विपद्याच्चैकवत्रेण पिष्टं यस्याखिलं यशः ॥ १५ ॥
१२३. दानैकशौण्डत्वेनात्रत्यराजस्य याच्या सर्वथाखण्डितयशस्कत्वादस्मिन् गज्ञानत्यनृपेण सह स्पर्धा साम्यं स यज्ञपुरुषो विष्णु: का वहेन् । यत्याखिलं यशो द्विपत: शत्रोर्या याच्या प्रार्थना सैव यशःशरीरत्य चूर्णकत्वेनकमद्वितीयं निरुपमं वामशनिस्तेन पिष्ट चूर्णितम् । मित्रादपि याचा लाघवहेतोर्यशः पिनष्टि किं पुनः शत्रोः । विष्णुना तु द्विपन् बलिमिनीभूय त्रिपदी याचित इति ।।
१ सी डी "ति '. २ एफ बहुपु. ३ एफ ५५ anik
न्या. ४ ए "न चू.