________________
७७
[है० १.३.५७ ] प्रथमः सर्गः। धये नराः प्रतीहारा: सन्ति । किंविधा. । उचितासु योग्यासु धूर्प योग्यविज्ञापनादिपु राजकार्यप्राग्भारेपु दृढा धारणसमर्था एवंविधा अप्यविनीती विज्ञापकलोकवैमुख्यायैव स्युस्तन्निराकरणायाह । महत्सु पूजाहेपु वरिवस्यका उचितासनदानादिना सन्मानका विनीता इत्यर्थः । कायेन विनीता अपि वचसा मनसों चाविनीता विज्ञापकानां वैमुख्यायैव स्युस्तन्निगकरणायाह । गीर्षु चेत.सु च स्वच्छा अकुटिलवचसोकुटिलाशयाश्चेत्यर्थः ॥
गीर्षु । धूर्षु । द्वापुं । इत्यत्र “अरो. सुपि र." [५७] इति रेफ एव । अरोरिति किम् । चेत.सु ॥ र इत्येव । महत्सु ॥
गीर्पतिर्गीपतिः सत्यमहर्पतिरहपतिः ।
वाक्तेजोभ्राजिलोकेस्मिन् को हि गी:पत्यहःपती ॥ ११७॥ ११७. अत्र प्रथमौ गीर्पत्यहपतिशब्दावनुवाद्यौ द्वितीयौ तु विधेयौ । तथाहि गीर्पतिर्वाचस्पतिः सत्यमवितथं गीपतिगिरां वाचां पतिः स्वामीति योन्वर्थस्तेनान्वितोस्तीत्यर्थः । तथाहर्पतिर्दिनकरः सत्यमह पतिस्तेजोभिरहां कारकत्वाद्यथार्थोह्रां पतिश्चास्ति । परमस्मिन्पुरे जने वाक्तेजोभ्राजि वाणीप्रतापाभ्यां सर्वोत्कृष्टत्वाच्छोभमाने सति गी:पत्यहःपती हि स्फुटं कौ । न कावपीत्यर्थः । इति काका व्याख्या ।
त्वं भुवो धूर्पतिः कीर्तेधूपतिर्दापतिः श्रियः। प्रचेतो राजन् प्रचेता राजन्नत्रेति गीनृणाम् ॥ ११८॥ ११८. अत्र पुरे गीरस्त्यर्थात् राज्ञि विषये । कथमित्याह । हे १ वी ता शा. २ ए एफ लोके वै. ३ ए सी सा वावि'. एफ सावि. ४ डी तस्सु च. ५ सी च्छा कुटिलवचसोकु. एफ °च्छा अकुटिलाशया इत्य. ६ सी डी तम्सु ॥. ७ एफ् गी पतिवाच.