________________
[है० १.३.५५.] प्रथमः सर्गः। स्यात् । एवं के पावपि ॥ तयोरिति किम् । सर्वैयुगपत् । अन्वित्यधिकाराद् गीः इत्यादिपु दीर्घत्वे कृते पश्चाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृत इरुरोरभावादी? न स्यात् ॥
प्रभुकार्येषु धूःख्यातः क्षत्रियैः प्सातसाध्वसैः ।
भात्यत्र श्रीमतां द्वारं खनिभिः सरूपाणिभिः ॥ ११३ ॥ ११३. अत्र पुरे श्रीमतां द्वारं सौधबहिर्भागः क्षत्रियैः कृत्वा भाति । कीदृशैः । शक्तिस्वामिभक्त्यतिशयेन प्रभुकार्येषु स्वामिकृत्येषु धू ख्यातैः धुर्यादौ प्रसिद्धैः । प्सातसाध्वसैद्मस्तभयैः । शूरत्वेन निर्भयैरित्यर्थः । खङ्गिभिः खड्गप्रहरणान्वितैः खङ्गे पार्श्वस्थेपि खगिन उच्यन्ते तन्निराकरणायाह । त्सरुः खड्गमुष्टिः पाणौ येषां तैः खगन्यप्रकरैः । धनिनां हि सौधद्वारे रक्षार्थ खगव्यप्रकगमहाभटास्तिष्ठन्ति ।
धूःख्याते. । इत्यग्र “स्यागि" [५५] इति रस्य विसर्ग एव ।।
खनिभिः सरु । क्षत्रियैः प्सात । ख्यातैः क्षत्रियः । इत्यत्र "शिव्यघोषात्" [५५] इति रस्य विसर्ग एव ॥
मदाम्भश्योतिनोत्रेभा लावण्याम्भश्श्च्युतः स्त्रियः ।
दानाम्भःश्च्युत्करावाढ्या धनं निष्ठयूतवद्विदुः॥११४॥ ११४. अत्र पुर इभा गजा मदाम्भश्योतिनो मदजलस्रीविणो मदोन्मत्ताः सन्ति । तथा स्त्रियो लावण्याम्भश्श्युतो लावण्यपात्राणिसन्ति। तथाढ्या धनिनो दानं हि जलदानपूर्व दीयत इति स्मृतेर्दानाम्भःश्युदानस्य जलं क्षरन् करो हस्तो येषां ते ताँ सन्तो धनमुदारत्वाग्नि१ एफ ग्याम्भ. ब्युत.. २ एफ् नाम्भश्श्च्युत्क.
१ एफ त्वे प. २ बी भावत्वादी. ३ एफ अस्मिन्पु. ४ All mss, read जलप्राविणः. ५ एफ प्याम्भः भ्युतो. ६ एफ नाम्भश्यु. ७ सी डी था रसतोध.