________________
[है० १.३.५२.] प्रथमः सर्गः। वा देहभाक् प्राण्युपाध्यायमन्त्रौषधिदेवतादिप्रभावेण सुवाग । संस्कृत५चनो भवति । तथा सतृट् धनधान्यादिषु सतृष्णो निस्तृट् स्वर्णरूप्यादिसिद्ध्या पूर्णमनोरथत्वाद्विगतस्पृहः । तथा सलुप् शरीरावयवच्छेदवान् निर्छन् देवतादिप्रभावेण पूर्णाङ्गावयवः । तथा विमुत् रोगातशादिना गनहर्प, समुद् महावैद्यादिसंपत्त्या विगतरोगाद्युपद्रवत्वात्सहो भवति । अत एवात्र देहभागमरैर्देवैः सध्यड् समो भवति । देवा अपि हे सुवाचो निम्नृपो निलप: समुदश्व स्युः । यतोद्भुतास्पदे महोपाध्यायसप्रत्ययमन्त्रोपंधीदेवतादिजनितानाम-दुतानां स्थाने ।। __ अवार सुवाग् । सतृट् निस्तृड् । विमुत् समुद् । सलुप् निर्लुब् । अत्र "विरामे वा" [५.] इति वा प्रथम. ॥ विराम इति किम् । देहभागमरैः ॥ धुट इत्येव । सध्यड् ॥
कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह पिङ्गकाः। विरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥ ११०॥ ११०. मिन्वन्ति विलासान् "शृङ्गशादियः" इति गप्रत्ययान्तः पञ्चमोपान्त्यः पिग इति निपात. । यद्वा । सिटानादरेण गच्छति गायति वा “पृपोटरादयः" [३:२.१५५] इति पत्वे पिड्ग इति टवर्गीयतृतीयोपान्त्यः । अज्ञातर्थे कपि पिङ्गका भुजगाः स्त्रीणां कण्ठलग्नाः कण्ठाश्लिष्टाः सन्त इह पुरे सदा खेलन्ति क्रीडन्ति । यथा विरामे वर्णानां विरतौ सति संधयः संविकार्याणि "न संधि." [१.३.५२] इति प्रतिषेधात्कदाचिन्न प्रवर्तन्ते । तथा विराम खेलनानिवृत्तिविषये न प्रवर्तन्ते नोद्यच्छन्ति ॥
खेलन्ति इह । स्त्रीणाम् खेलन्ति । इत्यत्र "न संधिः" [५२] इति संध्यभावः ॥ विगमे न प्रवर्तन्ते कदाचिस्संधयो यथेत्यनेन चोपमानेन ते आहुः । तद् लुनाति । भवान् लुनाति इत्यादीनि शेपोदाहरणानि शापितानि ॥
१ एफ ताप्र २ सी त धा'. ३ बी ड् सुवर्ण'. ४ एफ °हाविद्या. ५ सीडी महोप. ६ °पधदे'. ७ एफ सातार्थे. ८ सी °ति नसधिमा . ९ सी डी त्यादिशे',
१०