________________
व्याश्रयमहाकाव्ये
[मूलमाजः]
यः प्रभाच्छेदः प्रदापोच्छेदस्तत्र मैत्रावरुणनिष्टुरा उर्वश्यां मित्रावरुणाभ्यां जातत्वान्मित्रावरुणयोरयमपत्यत्वेन मैत्रावरुणो वशिष्ठस्तद्वभिष्टुगः प्रचण्डाः । वशिष्ठो हर्बुदाश्रमस्थो विश्वामित्रेण राझार्बुदागतेनापाहताया नन्दिनीधेनोः प्रत्याहरणाय महायागं कृत्वामिकुण्डे चतुहस्तं चतुर्वक कोपावेशात् हुमित्युञ्चारयन्तं तेजस्विनं महाभटं निष्पादितवान ।
स जित्वा कौशिकं जन्ये धेनुं प्रत्याहरन्मुनेः ।
प्रीत्युन्मुखात् प्रमाराख्यां प्राप प्राज्यैर्वरैः सह । इति । यथा वसिष्ठेन महाज्ञानक्रियावलेन विश्वामित्रस्य माहात्म्यमपहतमेवं विश्वोपद्रवकारिणां दैत्यादीनां दर्पमपहरन्त इत्यर्थः । यद्वा पट् कर्माणि देवपूजागुरूपास्तिस्वाध्यायसंयमतपोदानरूपाणि प्रतिदिनकृत्यानि येषां ते षटुर्माणः परमश्रावका अत्र सन्ति । किंभूता वाक्पूतास्तथा तत्तयानेकविधत्वेन प्रसिद्धया विद्यया श्रुतज्ञाने. मतिज्ञानेन वा ककुप्सु श्रुता अत एव विश्वे समस्ता येमित्रा रागद्वेपान्तरङ्गशत्रवस्त एव विश्वामित्रस्तत्प्रभाच्छेदे मैत्रावरुणनिष्ठुराः ॥
वायपूताः । प्रभाच्छेदे । पट्कर्माणः । तत्तत् । ककुप्श्रुताः। अभिभ । इस्यन्त्र "अघोपे" [५०] इत्यादिना प्रथम ॥ अघोप इति किम् । विद्या ॥ भशिट इति किम् । निठुराः ॥
अवाक् सुवाग सट् निस्तृह सलुप् निर्लुव् विमुत्समुद् । देहभागमरैः सध्यङ् भवत्यत्राद्भुतास्पदे ॥ १०९ ॥ १०९. अत्र पुरेवाक् जडजिह्वत्वेन कुत्सितवाग् मूकत्वेन बाप्रहितो
-
-
१बी पति. २. सीरीणाई. ३ सीरी एफ वशिष्ठे'. ४ पफ न । बा.५ सीमित्रा'. ६ एफयाः ॥.