________________
[है ० १.३.४९.]
प्रथमः सर्गः।
अस्तब्धा दुग्धशुद्धात्मन्मा लज्जख प्रगल्भ्यताम् । पिण्डि मानं सपत्नीनां मुग्धास्मिन्निति पाठ्यते ॥१०७ ॥ १०७. अस्मिन्पुरे मुग्धा नवोढा पाठ्यते सखीभिः शिक्ष्यते । कथमित्याह । हे दुग्धशुद्धात्मन्नकुटिलाशये भर्तुः समीपागमे मा लज्जर किं तु प्रगल्भ्यतां शृङ्गारसारस्वकलाकौशलप्रकागनेन प्रगल्भीभूयताम् । ततश्च प्रेयसोतिवल्लभीमवनेन सपत्नीनां मानं सौभाग्यविपर्य गर्व पिण्डि चूर्णयेति । यतोस्तब्धा विनीता । यो पुस्तन्धो विनीतः त्यात्सें मुग्धो मूर्योप्युपाध्यायेन पाठ्यते ॥
लजस्व । दुग्ध । मुग्धा । पिण्डि । शुद्ध । अस्तब्धा । इत्यत्र "तृतीय." [४९] इत्यादिना धुरः स्थानिप्रत्यासम्बस्तृतीयः । तृतीयचतुर्थ इति किम् । पाठ्यते ।। धुट इत्येव । प्रगल्यताम् ॥
पकर्माणोत्र वाक्पूतास्तत्तद्विद्याककुप्श्रुताः । विश्वामित्रप्रभाच्छेदे मैत्रावरुणनिष्टुराः ॥ १०८ ॥ १०८. पट् कर्माणि यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणानि प्रतिदिनकृत्यानि येषां ते षटूर्माणो द्विजा अत्र पुरे सन्ति । कीदृशा वाक्पूताः सत्यमितवाक्त्वेन वचनेन पवित्राः । एतेन सदनुष्ठानवत्त्वमुपलक्षितम् । तथा तास्ता अनेकप्रकारत्वेन प्रसिद्धा या विद्याः शिक्षाकल्पादयश्चतुर्दश ताभिः ककुप्सु दिक्षु श्रुता विख्याताः । एतेन ज्ञानित्वोक्तिः । अत एव विश्वामित्रप्रमाच्छेदे विश्वस्योपद्रवकारित्वेनामित्राः शत्रवो विश्वामित्रा दैत्यराक्षसादयस्त एवान्यायकारित्वाद्विश्वामित्रो गाधिसूनुस्तस्य
१ एफ स्व प्र. २ सी य त°. ३ सी डी य सर्वं. ४ सी डी स मू. ५ एफ ग्धोपि मू. ६ सी स्थानप्र. डी स्थानेप्र. ७ एफ वित्रिता. 1.