________________
व्याश्रयमहाकाव्ये [मूलराजः] धर्म शिण्डि गुणा शिण्ड्डि पिण्ड्यघं पिण्ड्डि दुष्कलिम् । • प्रत्तं गृहाण नापत्तं शिक्षात्रेति विपश्चिताम् ॥ १०५ ॥
१०५. शिण्ढि सदाचाराचरणेन विशिष्टीकुरु । पिण्डि चूर्णय । प्रत्तं स्वामिना दत्तम् । नाप्रत्तम् । नञ् मार्थे । अदत्तं मा गृहाणेत्यर्थः । शिष्टं स्पष्टम ॥
शाङ्गिणः सक्न उद्भूतां गुणदर्ती सुरस्त्रियम् । अत्र नार्यः कलावोध्यो विजयन्ते निजैर्गुणैः ॥१०६ ॥
१०६. अत्र पुरे कला गीतनृत्ताद्याश्चतुःषष्टिस्तासां बोयो झान्यो नार्यः सुगन्त्रियं स्वर्वेश्यां निजैर्गुणै रूपादिभिर्विजयन्ते उत्कृष्टत्वात्पराभवन्ति । किभूताम् । शाङ्गिणो विष्णोः सक्न अरुप्रदेशादुद्भूतां संजाताम् । हरेः किलातितीव्र तपस्तपस्यतः क्षोभाय स्वपदापहारक्षुभितेनेन्द्रेणाप्सग्स: प्रेपितास्ताश्च क्षोभनाय नृत्तादिविलासान् कुर्वतीदृष्ट्रा तदर्पापनादाय हरिणा निजसक्थि विदार्यागताप्सरोरूपजैत्री उर्वशीनाम्री स्त्री निर्मम इति लोकोक्तिः । अत एव गुणदी गुणै रूपला. घण्यादिभिर्दपिठीमपि ॥
प्रत प्रत्तम् । शिण्ठि शिण्डि । पिण्डि पिण्डि । इत्यत्र "धुटो धुटि स्वे वा" [५८] इति धुटो लुग्वा ॥ धुट इति किम् । शाङ्गिणः॥धुटीति किम् । समः ॥ स्व इति किम् । दीम् ॥ ध्यानाटिस्येव । बोरयः ॥
१ सी डी यलम्.
१ ४ी
एफ यः । शेष प. २ एफ् नृत्यापा. ३ एफ पष्टिकलारता'. नि'. ५ एफू नृत्यादि. ६ एफ यामिति ॥. ७ एफरिणो ॥ धु.