________________
[है० १.३.४७ ] प्रथमः सर्गः ।
६९ यद्यपि स्वर्गाडम्बगेधिकोपि वाच्य: स्यात् तथापि पत्तनाडम्बरात्स्वर्गाडम्बगे हीन एव ज्ञेयः । पत्तनस्यात्र वर्ण्यत्वात् ॥
एप प्रैप' । सकोपि । प्रैप वा ॥ प्रस प्रभु । इत्यत्र "एतदश्च" [४६] इत्यादिना मेर्लुक् ॥ अननसमास इति किम् । एषकः किम् । सकः स्वर्गः । भनेपो हि । अमः किम् ॥ व्यञ्जन इति किम् । एपोत्र । सोपि ॥
सरूपयुक्ताः समाग्रे राजन्त्यत्र कुलस्त्रियः । व्यञ्जनाग्रे पञ्चमान्तस्थावद्वालोपशोभिताः ॥ १०४ ॥ १०४. अत्र पुरे वालैः केशैः। ववयोरैक्याद्वालैरर्भकैर्वा । उपशोभिताः कुलस्त्रियः सयाने गृहद्वारदेशे सरूपयुक्ताः सरूपैः समानरूपैर्भर्तृभिर्युताः सत्यो राजन्ति शोभन्ते । भवति हि शोभातिशय स्त्रीणां समानभर्तृयुक्तानाम् । यथा वा विकल्पेन लोपो वालोपस्तेन शोभिता वालोपशोभिताः पञ्चमान्तस्था उत्रणनमयरलवा वर्णा व्यअनाग्रे व्यञ्जनात्पराः सरूपयुक्ताः सरूपैः समानरूपैर्डनणनमयरलवैर्युक्ताः सत्यो सन्तो?] राजन्ति ॥
कुचो डौ कुझौ कुडो । अदितेरयमादित्यः स देवतास्य आदित्य' स्थालीपाक आदित्य्य इति वा । इत्यादिषु हि व्यञ्जनात्पराः पञ्चमान्तस्थाः सरूपेषु परेषु "व्यञ्जनारपञ्चमा" [४७ ] इत्यादिना वा लुप्यन्ते । एतेन "न्यजनारपचमा" [४७] इत्यादिसूत्रोदाहरणानि सर्वाण्यपि सूचितानि ॥
१ एफ भुतेत्य. २ सी डी हि सक कि । एफ हि । असोवाव्य'. ३ सी पोसोपि ।। स. ४ ए 'त्र ॥. ५ सी शैवयो डी शैवयो". ६ बी क्ताः सह स'. ७ ए वी एफ न्ति भ° ८ एफ भिता. प. ९ सी रूपैई . १०डी 'नयुक्तरू'. ११ डी क्रुड्डी कुडी. १२ सी कुट्ठी १३ डी °दित्या. १४ एफ 'पु व्य.