________________
[है० १.३.४४.] प्रथमः सर्गः।
६७ अॉस्ति । कीदृक् सन् । सुष्टु सर्वसामुद्रिकलक्षणोपेतत्वेन शोभेनसंस्थानं शरीगवयवरचना यस्य स सुसंस्थानः सुरूप इत्यर्थः । तथासंस्तब्धोनहंकारस्त्वयि सप्रश्रय इत्यर्थ. । तदेतदभ्युत्थानाय त्वमप्युनिप्टेति व्यजितमित्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या वयस्याशिक्षयोत्तिप्ठन्ती पत्युरभ्युत्थानायो/भवन्ती मुग्धा नवोढा रुयगमुदस्तभत् स्तम्भरहितं चक्रे । विनीतं चकारेत्यर्थः । यद्वा । किल कां चन मुग्धां निकटमायान्त पतिं दृष्ट्रा सद्यः स्मरोद्रेकात्स्तम्भेन सात्विकविकारेणाक्रान्तां किकर्तव्यतामूढामभ्युत्थानादिप्रतिपत्तिमकुर्वाणां निकटस्था सख्येवमाह । यथा हे सखि स प्रसिद्ध एष प्रत्यक्षस्ते पतिरसंस्तब्धस्त्वदर्शनेपि गाम्भीर्यातिरेकात्स्तम्भरहितोज्ञेयस्तम्भविकार इत्यर्थः । अत एव सुसंस्थानोविकृताकारः सन् सूत्स्थान अर्ध्वस्थितोस्ति । एतेनेदं व्यञ्जितं यदुत सखीजनमेलापकेपि त्वं मुग्धतयागम्भीरत्वात्पतिदर्शने स्तम्भान्वितात एव विकृतोपविष्टा चाभूरितीत्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या मुग्धोत्तिष्ठन्ती पत्युरभ्युत्थानायो भवन्ती सत्यगमुदस्तभेत् स्तम्भरहितं चक्रे । एवं व्यङ्गयोक्या सख्या तत्कामचेष्टायां प्रकटितायां पत्युरभ्युत्थानायोत्तिष्ठन्ती स्तम्भसंरम्भमाच्छादयामासेत्यर्थः ॥
सोढा । वोढा । इत्यत्र “सहिवहे:" [४३] इत्यादिना ढस्य लुगवर्णस्य चौफारः ॥ अवर्णस्येति किम् । म्यूट ॥
केतूत्थैः । उत्तम्भित । इत्यन्न "उदःस्था" [४४] इत्यादिना सस्य लुक् ॥ उद इति कि । सुसंस्थानः । असंस्तब्धः। स्थास्तम्भ इति किम् । उत्स्तौति ॥
१ सी मुद्रक २ सी भनस. ३ सी डी राधव. ४ एफ °सुस्था'. ५ बी सी ख्युक्तावयस्याः शि. ६ सी डी त् मरम्भ. ७ ए सी क्रान्त कि. ८ सी खि प्र. ९डी स्तम्भोवि. १० सी डी °र. सू. ११ एफ कृताविकारायानासत्युप. १२ सी ख्युक्ततामु. १३ सी डी त् सरम्भ. १४ डी म्भमा'. १५ एफ म् । अ. १६ सी डी स्थानम् ।।