________________
[है• १.३.४१.] प्रथमः सर्गः।
मृदू रक्तः शुची रम्योस्मिन्नाढ्यस्त्रीजनः मुखी। अहो रात्रिं च नो वेति स्वारामाजनसंनिभः ॥ ९८ ॥
९८. अस्मिन्पुर आन्यस्त्रीजनोहो रात्रिं च नो वेत्ति । कीदृक् सन् । मृदुः कोमलपाण्याद्यवयवः कोमलवचनो वा । रक्तः स्वपत्यावनुरागवान् । शुचिरुज्ज्वलागनेपथ्यः कौटिल्यादिपङ्करहितो वा । रम्यो रूपलावण्याद्यतिशयवान् । सुखी नीरोगत्वसर्वसंपत्तिसामग्र्यादिना सुखितः। अत एव स्वारामाजनसंनिभः स्वर्गस्त्रीसदृशः ।। अतिसुखितत्वेनोदितमस्तमितं च न जानातीत्यर्थः । स्वारामाजनोप्युक्तविशेषणोपेतो दिनं रात्रिं च न जानाति ॥
स्वारामा । शुची रम्यः । मृदूरक्तः । इत्यग्र "रो रे लग्" [१] इत्यादिना रस्य लुगकारेकारोकाराणां धानन्तराणा दीर्घः ॥ अन्वित्येव । महो रात्रिम् । ___भत्र पूर्वमेव रोरुत्वे रेफामावाल्लुग्दीर्घामावः सिद्धः ॥
उमामादिमसक्तानां प्रौढानां लीढसौरभः । मधुलिट्टोकते लेढुं मोढात्रावृढ आननम् ।। ९९ ।।
९९. अत्र पुर उमामाढिप्रसक्तानामुमाया गौर्या माढिमहनं पूजा तत्र प्रसक्तीनामासकानां प्रौढानामिद्धवयोमन्युकामानां प्रगल्भस्त्रीणामाननं मुखं लेढुमाघ्रातुमावृढ उद्यत: सन् मधुलिट् पूजार्थोपनीतपुष्पसहचरो भृङ्गो ढौकत आगच्छति यतो मोढा मुखे पद्मभ्रमवान् । कुतः । यतो लीढसौरभ आघातमुखसौगन्ध्य: पूजार्थानीतपुष्पाणि
१ सी डी ढ्यः स्त्री.
१डी पताच. २ सीडी काना. ३ बी सी डी एफ पुन्फस.