________________
[है० १.३ ३८]
प्रथमः सर्गः।
हती तत्संवोधनं हे पुत्रहति । तथौ हे पुत्रजग्धि भक्षितपुत्रे त्वयेदं दुष्टु कृतमिति स्त्रियं च ॥
पुत्रादिपुत्रपुत्रादिवर्जितेत्रोपहस्यते । पुत्रादिपुत्रपुत्रादिमत्स्यो न्यायः प्रचेतसः ॥ ९४ ॥
९४. पुत्रादिन पुत्रभक्षिण. पुत्रपुत्रादिनश्च पौत्रभक्षिणो मत्स्या यत्र स प्रचंतनोपांपतेर्वरुणस्य न्यायोत्र पुर उपहस्यतेल्लोकैः । यतः पुत्रादिपुत्रपुत्रादिवर्जिते पुत्रादी पुत्रसंहारी य: पुत्रपुत्रादी पौत्रसंहारी शाकिन्यादिलोकस्तेन वजिते रहिते ॥
पुत्रादिन् । पुत्रपुत्रादिन्निति नाक्रोशति । इत्यत्र “पुत्रस्य" [३८] इत्यादिना न द्वित्वम् ॥ आदिन्पुत्रादिनीति किम् । पुत्रहति पुत्रजग्धीति नाक्रोशति ॥ आक्रोश इति किम् । पुनादिपुत्रपुत्रादिवर्जिते पुत्रादिपुत्रपुत्रादिमत्स्यः । एषु "अदीर्घात्" [१.३ ३२] इत्यादिना विकल्प एव ॥
कम्बुकण्ट्योत्र तन्वङ्ग यश्चश्वदजन्मलोचनाः । रंरम्यन्ते यद्भुवोग्रे लुठन्किङ्करति स्मरः ॥ ९५ ॥ ९५. अत्र पुरे तन्वगयः कृशाङ्गयो जलक्रीडादिभी रंरम्यन्तेत्यर्थ फ्रीडन्ति । कीदृश्यः । कम्बुः शसस्तद्वद्वर्तुलस्त्रिरेखो मधुरस्वरश्च कण्ठो यासां तास्तथा चञ्चजन्मलोचनाः विकस्वरेन्दीवराक्ष्यः यद्भुवोये यासां भ्रवः पुगे लुठन्परिवर्तमानः स्मरः कामः किंकरति किकरवदाचरति । अत्रत्यतन्वगीनां यत्रं यत्र भ्रुवोनिक्षेपस्तत्र तत्र स्मरो विज़म्भत इत्यर्थः । किंकरोपि हि भक्तिविशेषख्यापनाय स्वामिनोगे लुठति ॥
१ डी इत्येत. २ ए सी डी पुत्रह'. ३ एफ था पु. ४ सीडी एफ् दुष्ट कृ. ५ एफ री च शा. ६ एन्तेत्यार्थः ७ सी डी प्रभु