________________
व्याश्रयमहाकाव्ये
[मूलराजः]
पन्ते सेवन्ते ये तेषां तपस्विनां दर्शनात् हिंस्रोपि क्रूरकर्मा व्याधादिपि धनुस्त्यागं मृगादिवधार्थमुपात्तस्य धनुषस्त्यागं करोति यतो हर्षकृतां धन्या एते भगवन्तो ये शान्तदान्तास्तपसैवमात्मानं क्लेशयन्ति तन्कि वय निरपगधजीवव्यापादनपापवृत्त्यात्मानं दुर्गतौ पातयाम इति प्रकारेण व्याधादिलोकस्यापि हर्ष क्रूरत्वोपशमैक मनउल्लासमतिशान्तत्वतीव्रतपश्चरणकरणादिना कुर्वन्ति ये तेषाम् । यथार्को रविः कृसरा सप्तधान्यानि तस्या अयम् अणि कार्सरो य उत्सवस्तस्मिन् कार्सरोत्सव उत्तरायणदिने धनुस्त्यागं धनूराशित्यागं करोति । रविघुत्तरायणदिने धनूराशेर्मकरराशि संक्रामति । शब्दश्शेषेणोपमा ॥
दर्शनात् । हर्ष । कार्सर । इत्यत्र "न रात्स्वरे" [३०] इति रात्परस्य शिटो न द्वित्वम् ॥ रादिति किम् । उत्स्सवे ॥ स्वर इति किम् । काय ॥ शिट इत्येव । अर्क।
पुत्रादिन्पुत्रपुत्रादिन्नथवा पुत्रहत्यपि ।
पुत्रजग्धीति नाक्रोशत्यस्मिन्मधुरगीर्जनः ॥ ९३ ॥ ९३. अस्मिन्पुरे जनो लोकः पुरुषं स्त्रियं च नाक्रोशति न निष्टुरं वक्ति यतो मधुरगार्मेदुवाक्य । कथं नाक्रोशतीत्याह । हे पुत्रादिन्नभीक्ष्णं पुत्राणां भक्षक हे पुत्रपुत्रादिनभीक्ष्णं पौत्राणां भक्षक त्वयेदं कार्य विनाशितमित्याद्यध्याहार्यम् । इत्येवंप्रकारेण नरम् । अथवा तथा पुत्रो हतोनया "अनाच्छादजात्यादेर्न वा" [२ ४. ४७.] इति ज्या पुत्र
-
__ १ ए सी पुत्रह. २ ए सी पुत्रज.
। सी दि पा. २ एफ शान्ता दा'. ३ सीडी सैवात्मा. ४ सी मकम. ५ एफ लास शा. ६ सी डी रणा. ७ सी डी "न्ति ते . ८ वी सीसीएफ जनः पु. ९ए सी डी पुत्रह.