________________
[है.१.३.३४.] प्रथमः सर्गः । तथा हे सखि । इह मध्विहापि स्थाने मध्वस्तीत्येवंप्रकारेणात्र पुरे वाल्यमन्मना वालवादव्यक्तमधुरा वाग वाणी कुमारीभिः प्रतन्यते विस्तार्यते । दव्यत्रेत्यादि स्वप्रधानमेव वाक्यद्वयमपि । यद्वात्राकृतयवद्वित्वस्य वाक्यस्य "असकृत्संभ्रमे" [७. ४ ७२.] इति संभ्रमे द्विरुक्ति । ततो यवोद्वित्वं वा । तदायमर्थः । हे सखि । अत्र प्रदेशे दुय्यस्त्यत्र प्रदेशे दध्यस्ति । एवं मध्विह मध्विहेत्येवं संभ्रमप्रकारेण ।।
दध्य्यत्र दध्यत्र । मध्विह मध्विह । इत्यत्र "ततोस्याः" [३४] इति वा द्वित्वम् ॥ तत इति किम् । याल्य ॥ अस्या इति किम् । वाग्बाल्यमन्मना ॥
कष्टकष्टं कृतञ्च्छन्नञ्छन्नं मे स्फुरितं स्फुटम् ।
कलिः पातः पूत्करोतीत्यत्र शङ्खध्वनिच्छलात् ॥ ८८ ॥ ८८. पत्तने हि किल देवसद्मसु प्रातःक्षणे धर्ममहाराजजागर्याकृतपुद्ध. सदा शहो वाद्यते । तद्धनिमपद्धुत्यान्यदुत्प्रेक्ष्यते । अत्र पुरे प्रातः प्रभाते शङ्खध्वनिच्छलात्कलि: पापयुगं पूत्करोत्युचैः कोकूयत इव । कथमित्याह । मे मम स्फुटं सर्वजगत्प्रकटं स्फुरितं विजृम्भितं सर्वलोकान्यायप्रवृत्तिलक्षणं छन्नं छन्नं गुप्तं गुप्तं कृतम् । प्रस्तावान्नयसद्मनानेन पुरेण तस्मात् कष्टुं कष्टं दुःखं दुःखं ममास्तीति । यस्य हि वस्तु केनापि चौरादिना गोप्यते स तद्वियोगेन दुःखितः सन् पूत्करोति । अत्र चा. न्यायानां नाम्नोप्यभावेन कलिकालस्फुरितस्याज्ञायमानत्वादेवमपद्रुतिः ।। कष्टुं कष्टं कृतच्छन्नन्छसमित्यत्र वीप्सायां कष्टच्छन्नयोरिक्ति कृत्वा प्रथमद्वितीपयोरिवम् ॥
१डी कृतश्छन्नंग्छ'.
१ सी डी वाल्यत्वा'. २ बी तो वयो'. ३ सी डी 'त्युच्चकै. को'.