________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
१०३
चरित्रं सुविद्यां परस्मै ददातु, सुवक्तृत्वबोधोऽस्ति केषां विशेषः। तदा तत्कला चापि देया परस्माययं नो विचारो हृदा धारणीयः॥६॥ खविद्या मया दीयते चेत्परस्मै, तदा तस्य लोके प्रतिष्ठाऽधिका स्यात् । तथा योग्यता वृद्धिरेवं प्रयाति, विचारं च नैवं कदाचित्करोतु ।। (पठित्वा च विद्या प्रदानेऽधिका स्यात् ) ॥ ६९॥ तदा ज्ञानवृद्धिश्चरित्रप्रवृत्तिर्गरिष्ठो जनेऽथो भवेस्त्वं विचार्य । परस्मै कुरुष्वार्पणं खं गुणानां, समाजे प्रवृत्तिर्विधेया सुखेन ॥ . (तथाऽनन्यभावेन प्रीति विधाय) ॥ ७० ॥ यथा यश्च यस्मै विधत्ते च भावं, तथैवेतरोऽपि करोत्यात्मभावम् । धिया प्रेमभावो विचाव कार्यो, यतोऽन्योन्यसंमेलन स्यात्सुसौम्यम् ।। ७१ ॥ न याचे गुरोः पादसेवातिरिक्तं, विरक्ति तु वाऽऽध्यात्मविद्याप्रशक्तिम् । परं प्रेमतः साधुभावं प्रयाचे, समाजोन्नतिर्येन मे तद्विधेहि ।। ७२ ॥ त्रिधा तापतप्तोऽहमस्मिन् भवाब्धी, कथं मे निवृत्तिर्भवेद्दुःखराशेः । अतो मेऽमिलाषामिमां पूरयख, गुरो ? खां दयां मे विधायाथ भावात् ॥ ७३ ॥ जीवत्राणकरी निधाय विशदामास्येऽनिशं पट्टिकां, काये चोल्लपटं विलंचितशिखः कक्षे सितां मार्जनीम् । विद्याशून्यमुखारविन्दहृदयः श्राद्धादिकैर्गीयते, लोकान् शिक्षयितुं सुवेशरचना यस्यास्ति तस्मै नमः ॥ ७४ ॥ उपर्युक्तमर्थ हृदा धारयित्वा, सुविद्याविनोदे मनो धारणीयम् । न हास्यं भवेत्ते सभायां मुनीश! ह्यतो विद्यया सर्वमान्यो भवेस्त्वम् ।। ७५ ॥ परं भावुकत्वं च सद्धत्तिरेवं, सदाचारता चोच्चता भावनायाः । तथैवोन्नतत्वं चरित्रस्य मावि, जनाः प्रेमदृष्ट्या प्रतिष्ठां प्रकुर्युः ॥ ७६ ॥ प्रतिष्ठाऽपि संसारमध्येऽधिका स्यात्समाजेऽपि विद्वान् भवेच्चोपदेष्टा । तथा वक्तृतादायको ग्रन्थकारः, सुजाते महावीरदेवस्य शिक्षाविभागेऽधिका चोन्नतेर्वर्घिका
Pramo