________________
४०४ - वीरस्तुतिः। .. स्यात् ।। ७७ ॥ भवेत्काचिदित्थं जने योग्यता च, तथा शक्तिंभावोऽस्ति यसिन् विशेषः । प्रदेयस्तदान्ये नरे भक्तितश्च, सुविज्ञानवृद्धिस्तथा शक्तिवृद्धिः ॥ ७८॥ खशक्तेस्तथा योग्यतायां च विद्योपयोगस्य वृद्धौ च संयुक्तवीर्ये । ध्रुवं योजनीयं ध्रुवं योजनीयं, स्वचित्तस्य शंकां निरादृत्य लोके ॥ ७९ ॥अथ परोपकृतिः] शिक्षाः प्रेमधराः पवित्रहृदया भिक्षार्थिनो ध्यानतो, ज्ञायन्तां प्रतिजीवकार्यसमये लक्ष्यात्मविन्दुं मुहुः । मत्वानन्तपरोपकारकरणे शूरा भवन्त्वा: हिता, लक्ष्यं नैव कदापि विस्मृतिपथं कर्तव्यमेवं विदुः ॥ ८० ॥ धर्मे नोन्नतिकार्यगौरववशान्नान्यत्ररोधे करः, येन स्यादुपकारकेऽनुदिवसं लोकोपकारी भवेत् । न स्थानं च क्वचित्प्रदेयमधुना भेदस्य भावस्य च, सामाजे वितरन्तु कार्यपरंतां ध्यात्वा हृदा भिक्षुकाः ॥८१ साहाय्यं च भवेजनान्तरमुदेऽन्योन्यं विचारेण च, शक्तौ स्यादृढताबलं विवरणादेकं विचारस्य वा। तन्माहात्म्यवलं भविष्यति पुनः स्यादुन्नतत्वेन हि, संयुक्तस्य बलस्य वर्द्धनमथो स्यान्नोऽप्यनायासतः ॥ ८२,॥ एकस्यान्यसहायकोऽनुदिवसं भूत्वा सहायं कुरु, खान्ते वासकराय , देंयमखिलं नो वा विचारो मुने! विद्यैवं च समाजके प्रसरति लोकोपकारस्ततो, ज्ञात्वा सर्वमिदं विचारनिरताः श्रेयस्करा बुध्यताम् ॥ ८३ ॥ अथाऽऽधुनिका सम्यक्त्वादानरूढिः] अद्यानद्यभवे च भिक्षुकवरेष्वाधीनजैनेषु च, सम्यक्त्वं प्रविधाय योगमिषतः शिष्यं खकीयं तथा । भक्तं पक्षधरं विनेतुमसतां रूढिविचित्रा मता। मीत्या सार्द्धमियं प्रवृद्धिरतुला वात्या स्वरूपेण च ॥ ८४ ॥ सूकम्पोऽयमितीव शेषविषयाज्ञयो मुनीन्द्ररतो । वृक्षाणामिव सहतेश्च' नितरों ,स्यायेन, नांशो मुहुः ।। , सम्यक्त्वस्य तथान्धसंघविलसच्छू