________________
४०१ - - - - वीरस्तुतिः। मोहस्य कथमखिललोकानुसरणे, विचार्यैवं सन्तः कुरुत मुनयो मोहशमनम् ॥ ५८ ॥ कुरीतीनां नाशो भवति हि च रूढेरपि तथा, सहावासः पश्चादनुभवजविज्ञानममवेत् । तदा प्रेम्णाऽऽमोदैः सह दमशमादेः सुकरणं, जनाधारे जैने निवसति सदा चित्तमचलम् ॥५९|| स साम्योत्कर्षे वा भवतिः सहवासस्य जनक, परं च ज्ञानस्योत्कटकमपि तस्यास्ति फलदम् । यदाऽभ्यासासक्तं , मुनिमपि वदन्त्याहितजनाः, समं केन स्पर्धा निगमसकलाऽध्यात्मविदुषा ॥ ६० ॥ सुविद्यावृध्यर्थ यदि मनसि चिन्ताऽप्युदयते । तदा स्पर्द्धावृद्धिनिखिलमुनिसधे विलसति । तदा विद्यालामो भवति मुनिवृन्दैरधिगता । भवे विख्यातिः स्यान्निजनिजमताचारवशतः ॥ ६१ ॥. विना ' स्पर्द्धा नापि प्रसरति समुत्साहविषयः । सहावासे चैवं न लगति मनश्चंचलतया । विनान्तः खाध्याये न वसति घियो वृत्तिरचला । ततो विद्यालाभो भवति विदुषांमोदसहितः ।। ६२ ॥ सहाध्यायिनं वा सहावासिनं वा, विनाधीतविद्याविनोदप्रचारः। सहाचारिणं चान्तरा नो विचारी, ततो नो भवेच्छास्त्रतत्वावबोधः ॥ ६३ ॥ तथा नावलोको भवेच्छास्त्रचर्या, विना तत्कृते नैव पुष्टिं प्रयाति । न काठिन्यकंस्थायिभावं तथैव, चिरं चित्तमित्तौ मुहुश्चिन्तयध्वम् ॥ ६४ ॥ तथाऽध्ययनतोऽध्यापनाद्वा विचारात्समुत्पद्यतेऽपूर्वशक्तिप्रवाहः । यदैकत्रवासो मिलित्वाऽखिलानां, तदा यंत्र येषां प्रवेशोऽधिकोऽस्ति ॥ ६५ ॥ प्रवीणोऽथवा वै विशेषाधिकारी, सहाचारिणे वा सहाध्यायिने च । सहावासिने वा प्रवीणं करोति, भवेत्तस्य सौख्यं नितान्तं मुनीनाम् ॥ ६६ ॥ स्वकीयेन तुल्यं च योग्यं विधाय, समाजे समुत्तेजनां वै करोति । अतो भेदभावं . परित्यज्य शक्ति, खकीयां तथा . योग्यतां सन्तनोतु ॥ ६७ ॥