________________
३९४ . वीरस्तुतिः। . .. . ककल्याणहेतोर्लोके धर्मप्राप्तये वै वहन्तु । येन स्यान्नो रक्षणं संयमादेन स्याद्धानिः कार्यसिद्धौ मुनीशाः ॥ ९२ ॥ तस्मात्सर्वान् भारती गेहमध्ये, सन्तो ग्रन्थान् स्थापयन्तु प्रयत्नात् । येन स्यादै सर्वलोकोपकारो, ज्ञात्वैवं वै नो विलम्ब हि कार्यम् ॥ ९३ ॥ शुद्धस्फाटिकवत्सरोजहृदयो विद्याकलावारिधिर्भाव्यस्तापत्रयापहो गुणनिधिः शिष्येष्टकामप्रदः । यद्येतादृशमावधारणकरः स्याच्चेद्गुरुः क्षिप्रतः, शिष्यारिष्टनिनाशनं च भवतान्नास्त्यत्र सन्देहकः ॥ ९४ ॥ एवं भिक्षुवराश्च शिष्यरचने क्लेशप्रदा वः प्रथा, यः कश्चिद्भवति प्रदीक्षणपरः स्यात्तस्य दीक्षेच्छया । कायात्पारदवद्वहि प्रसरते वार्ता स्फुटान्नित्यशः, श्रुत्वाऽनेकवरिष्ठसाधुचतुराः खास्यात्क्षरन्त्यम्बु च ॥ ९५ ॥ यलेनायमतद्विदो यदि भवेन्मे स्याद्वरः शिष्यकस्तस्यापि प्रभवेत्सुजीवनवरं लोके च धन्यो जनः । अन्ते सिद्धिकृतेऽन्तरस्थघटको दुर्वासनां वर्द्धयेत् , नाशार्थ समये सुसंयमयमान्नित्यं यतन्ते मुहुः ॥ ९६ ॥ संग्रहः पुस्तकानां यो, दोषो वर्वति तद्विदाम् । शिष्याणां करणे तद्वन्महान् दोषो हि जायते ॥ ९७ ॥ मातापित्रोविनाज्ञां च, व्ययं दीक्षोत्सवे वहु । अपव्ययमपि कर्तु, प्रेरयन्ति मुहुर्मुहुः ॥ ९८ ॥ भिक्षवः शिष्यतृष्णातो, नश्यन्ति धर्मकर्मतः। खगौरवं व्रतं चापि, नाशयन्ति मुधा खतः ॥ ९९ ॥ रोगस्यास्येयमस्तीह, शान्तिः श्रीखामिनो वरा । महावीरस्य संघस्य, सेवा सर्वार्थसाधिनी ॥ १०० ॥ सम्प्रदायानुरोधेन, संयमादेश्च सेवनम् । गच्छवादं गुरोर्वाद, शिष्यवादं विवर्जयेत् ॥ १०१॥ भारतस्याखिलस्यैकमुख्याचार्यो भवेद्भुवम् । भूत्वा, तस्यैव शिष्यास्तु, तदाज्ञां पालयन्तु च ॥ १०२ ॥ यः कश्चिद्दीक्षण, । १ सार्वजनिकपुस्तकालये ।। . . . . . ......... .।