________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३९५
प्राप्त, समीहेत मुदान्वितः । स्वदेशे संयम दीक्षां, निर्वेदेन च धारयेत् ॥ १०३ ॥ तदा व्यवस्था सन्मार्ग, गत्वोन्नतपदं ततः। गच्छेच्च शिवसम्प्राप्तिः, सर्वेषां नो भविष्यति ॥ १०४ ॥ सङ्घ चैकः स्थापनीयो गणेशः, सर्वानर्थान् वेदितुं यः समर्थः। येन स्यान्नः सम्प्रदायानुरोधाद्धर्मे वृद्धिश्चिन्त्यतां मिक्षुवयः ॥ १०५॥ कश्चित्समाजस्य महत्यदास्पदं, बिभर्तुमिच्छेत् किल तस्य वागुराम् । कर्तुं करे खस्य सदेषणास्ति वा, प्रगृह्यतां चेद्वरिवर्ति शक्तिः ॥ १०६ ॥ कश्चित्वयं सर्वसमाजकार्यकर्ता तथा धारयिता बुमूषुः । तथा व्यवस्थापि समाजशक्ती, स्वशक्तिमास्थापयितुं प्रवृत्तः ॥ १०७ ॥ कस्यापि चेच्छास्ति समाजनेता, सदा भवेयं च सुशासकोऽपि । एतद्धितेच्छा च प्रवर्धतेऽनिशं, सर्वखमेवास्तु मयि प्रपन्ने, ॥ १०८ ॥ यदीदृशीच्छा परिवर्तते तदा, समाजलोपोऽपि भवेद्धि शीघ्रम् । इत्थं समाजस्य च दुर्दशा भवेद्विचिन्त्यतां जैनमुनिप्रवीणैः ॥ १०९॥ कृच्छ्रादाप्तपदोन्नताद्धि पतनं निम्नं समाजस्य च, एवं गौरवनाशतां परिव्रजेत् सर्वे भवेयुस्त्वरम् । दुःखार्ता जिनदेवभक्तिनिरता धर्मोऽपि नाशं ब्रजेत्, ज्ञात्वैवं जिनशासनोऽनुदिवसं तद्रक्षणे स्थीयताम् ॥ ११० ॥ रोगोऽनेन समाजभोगविषये वृद्धिंगतो नित्यशः, साधूनामहमात्मिकाविकृ. तितो नष्टाऽधुना सभ्यता । सर्वेषां हि महत्वतत्वविषये जातैषणा सर्वतो, मानं चातपधावने निपतितं मिथ्यापलापो मिथः ॥ १११ ॥ भिक्षूणामभिमानभावमधिकं काषायसंसेविनामेतस्यापणमार्गभागविषये जातं महर्घ ध्रुवम् । योग्यायोग्यविचारणापि विलयं याता समाजस्य किं, तेनैवास्ति समाजकोऽपि नितरां पिष्टस्ततो घुण्णवत् ॥ ११२ ॥ .१ सघस्य प्रधानाचार्य : . . . . . . . .