________________
-
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३९३ दिविषये मोहं समुज्जम्भते ॥ ८३ ॥ तत्कि हीन हि, जायते भगवतां दीक्षार्थिनां लोकतो, लोकानां च धनार्जनं परजनश्रेयस्करं ज्ञायताम् । युष्माकं परिरक्षितं गतपटं न श्रेयसे पुस्तकं, ज्ञात्वैवं ममतां जहत्वनुदिनं भव्यं भवेद्येन च ॥ ८४ ॥ विद्याऽध्यापनकार्यलुप्तमधिकं तत्रापि पाठ्यक्रमो, हा वो हानिकरी विभाति कियती सख्या विरामस्य च । नोऽवस्था सुव्रतग्रहस्य नियता नो वा व्रतादेस्तथा, न खस्यापि गुरोविचारमननं कुर्वन्ति काऽन्यत्कथा ॥ ८५ ॥ यच्छास्त्राणि च पुस्तकानि पठने चोपक्रमात्पाठने, तानीर्षाममतावशाग्रहिगृहे ग्रंथि विधायाग्रतः । नष्टप्रायगतानि विश्वजलधौ नोद्धाटयन्त्यालसात् , शिष्येण प्रतिवासरं च गुरवोऽन्योन्यं प्रयुध्यन्त्यतः ॥ ८६ ॥ वैरं भावगताः परस्परमहो प्रेमोच्चकाधःपतन् , लोकान्तानि निजानि संकलुषयन् यान्त्या विनायासतः । ज्ञात्वेमां च दशां मदीयमनसि स्याहुःखसङ्गं पुनर्जनाचारसुशास्त्रतत्वमननात्वाध्यायवृद्धिर्भवेत् ॥ ८७ ॥ नीतिन्यायप्रमाणतत्वनिखिलात् सर्व विरुद्धं मतं, कोऽपि प्रीतिपुरःसरं न कुरुते कर्माखिलं सज्जनः । तेनाधःपतनं मतादिविहितं धर्माच यायान्मुहुतेनाऽहं च करोमि चिन्तनमहो धर्मस्य वृद्धिः कथम् ॥ ८८॥ शवालयगतौ यद्वत्सारमेयौ परस्परम् । युध्यन्तः साधवस्तद्वत् , युध्यन्ति प्रीतिमन्तरा ॥ ८९॥ अतोऽस्माकं च साधुत्वं, गत नास्त्यत्र भावना । दुर्दशा कीदृशी जाता, स्वधर्मो निधन गतः ॥ ८९ ॥ येनास्माकं वर्धते ज्ञानशक्तिर्यस्याधारान्नीतितत्वावबोधः । खाध्यायस्यामूल्यरतं वदन्ति, शान्तिर्दान्तिर्ज्ञानरूपे परेशे ॥ ९० ॥ तच्चेदानीं नाशभावं प्रयाति, नो वा शुद्धिः संयमादेश्व प्राप्तिः । तद्द्वारा वा नैव बोधो न मावस्तस्माच्छास्त्रं साधवोऽप्यात्मपाः ॥ ९१ ॥ तद्वद्वन्याल्लो.
-