________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३९१
दीक्षामात्रविधानकेन नियता मन्त्र प्रदत्वा मुदा । किञ्चिद्भाषणयुक्तिशक्तिसहिता भाषात्मिका दीयते, दशवकालिकनन्दिसूत्रविपय उत्तीर्णता चेद्भवेत् ॥ ६९॥ नो वैराग्यरतो विचारकरणेऽदक्षो न, विद्यान्वितः, क्षिप्रं श्राद्धजनाय मोहकरणेऽविद्यावशः सत्कथाम् । नो वा जैनमतानुसारचलनो भक्त्या विरक्त्या युतः, (नैवं शिष्यगणोऽतिदीक्षणपरो नो भावशुद्धौ रतिः) अन्येभ्यो हठवञ्चनाय नितरां शिष्योऽप्यनिष्टः स्मृतः ।। ७० ॥ न्यायप्राकृतजन्यकाव्यविषयं सच्छाब्दिकं वा पुनर्दद्याज्ज्ञानमनन्तरं सुमुनये शिष्याय दीक्षामपि । येन स्यात्समितौ सुयोग्यगणना लब्धप्रतिष्ठो भवेन्नो चेत्कर्मविगर्हितं च भवतां निन्दालयो जायते ॥ ७१ ॥ दृष्ट्वेमां घटनां बुधो हृदि महत्कष्टं मनस्तोददं, हास्यं वा विदधाति रोदनमथो वाह्यार्थमेषो जनः । हीनं योग्यतया जनो न मनुते सत्कारमातन्यते, जन्मान्धस्य दिवाकरः प्रकथनं नामात्यनर्थप्रदम् ॥ ७२ ॥ ज्ञानं नैव विभाति यस्य हृदयेऽज्ञानान्धकारापहं, नो शिक्षा विशदा सतां न मुखरो भूत्वाऽन्यथा वञ्चनम् । लोकान् वञ्चयितुं करोति विविधां धृत्वा मुखे वस्त्रिका, जैनानां मतदूषणं प्रकुरुते न स्थापनीयो जनः ॥ ७३ ॥ साङ्गोपाङ्गतया च सूत्रविषये स्याद्वादज्ञाने तथा, छन्दःशास्त्रसमन्वितेऽन्यविषये ज्ञानं प्रदायाथवा । साधुभ्यश्च परीक्षणं सुनियतं सस्कारयित्वा पुनः, पश्चाद्वीरपदानुसारवशतो दीक्षा प्रदेयाऽन्यथा ॥ ७४ ॥ व्याख्यानप्रतिभाप्रवन्धरचना ..शिक्षाप्रणाली ततो, धर्माख्यानपरं च भाषणमयी सद्भावना जायते । ज्ञानं न्यायकरं समस्तजनताकल्याणकृद्भाव्यत, एवं रीतिमुपाश्रयेद्यदि मुनिधर्मप्रवाहोदयः ॥ ७५, अहं. द्वीरनिमित्तधर्मसरणीमाश्रित्य, देशान्तरं, प्रान्त्वा विश्वहिताय.धर्मत: