________________
३९० . , वीरस्तुतिः। नितं चोष्णादिकंवा तथा, सेव्यं साधुजनस्य सङ्गमखिलं हेयं गृहिस्त्रीजने ॥ ६१॥ साध्वीस्त्रीगणसंगते न च पुनर्नो दर्शयेच्चाननं, संघस्योन्नतिके मनो मुहुरथो सन्दीयतां प्रेमतः। तच्चाप्युन्नतशेखरे स्थिरयितुं यत्नेन संस्थीयतां, सन्तो भिक्षुवराः समाजविषये. सद्गौरवं धार्य्यताम् ।। ६२ ॥ खच्छं जैनमतं तदुक्तविधिना स्याद्वादचित्तार्पणं, तत्सूत्रोक्तविमर्शतत्वमननं शश्वद्धिताऽऽधायकम् । कर्तव्य प्रतिवासरं सुमुनयो हित्वा कषायादिकं, शास्त्रेऽन्यत्रमते.(परसमये ) सुबोधकरणे कल्पन्तु सद्बुद्धिभिः ॥ ६३ ॥ शास्त्रोद्धारकृतेऽनुरक्तमनसः प्रत्यन्तदेशंप्रति, मा गन्तव्यमसत्करॉश्च विषयान्नो चिन्तयध्वं हृदि । सच्चित्रविलसदगृहं तु धनिनां हेयं सदा दूरतो, दध्याज्येन, समन्वितं च पयसा त्याज्यं सदन्नाशनम् ।। ६४ ॥ शीतोष्णादिकजन्यतापसहनं मौनं मिताभाषणं, येन स्याज्जनतोपकारसुखदं वाक्यं च धार्य हृदि । गन्तव्यं गहनं गिरौ,न पिहितं,सत्कन्दरामन्दिरं, भोक्तव्यं विरसादिकं च ह्यशनं धृत्वा प्रशान्ति मुदा ॥ ६५ ॥ योगाभ्यासपरायणो गुरुपदाम्भोजार्चनासक्तघीः, सूत्राभ्यासरतो 'दमादिसहितः सद्भावनासंयुतः,। ध्वस्ताशेषकषायको जितंमहापड़र्गशत्रुर्गुरुः, सद्भक्त्या परिपूर्णशान्तहृदयो योगाश्रमे दत्तधी: ॥६६ नो वै वेषविधानमात्रकरणाच्छिप्यो भवेत्कर्हिचिच्छान्तं धर्मरतं गुणान्वितजनं संशिक्षयेद्दीक्षया । नानाशास्त्रविचारणोत्सुकमनास्त्यक्तैषणो दुःखहृत, एतादृग्गुणवत्तरो ह्यतिप्रियः शिष्योवधेयो मुहुः ॥ ६७ ॥ हे मिथुप्रवरा मयाऽद्य समये सन्दृश्यते संस्थितिः, ये केचिद् गृहिणो गृहादिरहिताश्चायान्ति :नष्टे धेने । दुःखार्ताश्च बुमुक्षवो हि.भवतान मारात् पिपासाकुंला, नो कृत्वा च परीक्षणं पुनरथो 'दीक्षां ददत्यादः । रात् ॥ ६८ः। तेभ्योऽयोग्यतरेस्य दीक्षणमहो ,सन्दीयते वा. हठा: