________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३८९
निश्चयमाविधाय मनसः शुद्धिर्विधेया पुनः ।। ५३ ॥ रागैश्चापि परिग्रहैरनुदिन मुक्त्वा मवृन्त्वादरात्, सर्वानिष्टकरैर्ममत्वबलिमिः सङ्गः परित्यज्यताम् । खश्लाघाकरणे ममत्वकरणे दोषो महाञ्जायते, सर्वः साद्विषयान्मनोपहरणं श्रेयस्कर स्याचतः ॥ ५४॥ शास्त्रे वस्त्रे शिप्यवर्गे शरीरे, ग्रामे देशे श्रावके चान्यकार्ये । शोकं मोहं सम्परित्यज्य नैज, वायत्तायां नैव ग्राह्यं कदाचित् ॥ ५५ ॥ बोधार्थ जनताहिताय सकलो ग्रन्थो मुदा हर्म्यतां, न स्थाप्यो निकटे कदापि मनसो भारादयं नित्यशः । त्यज्यन्तां प्रियवस्तुनोऽपि नितरां नो कार्यतां सञ्चयो, नित्यैकं वसनं निधाय सुखदं खे जीवने रक्षणम् ॥ ५६ ॥ ग्राह्य मृण्मयमेव भाजनमथो नोऽनल्पमूल्यात्मकं, चैकं चाम्बरमेव धारणवरं नान्यन्महर्घ क्वचित् । धार्यो नान्यपरिग्रहश्च शयनं भूमिस्थले शोभनं, नो वाच्यं परुषाक्षरं कचिदथो जातापमानैरपि ॥ ५७ ॥ नो भोक्तव्यमनुत्तमं रसरसैर्युक्तं सदन्नं कचित् , गार्हस्थ्यैर्मनुजैन सङ्गतिरदः कार्या शुभाकातिभिः । स्थातव्यं शुभशासनैः शमदमक्षान्त्यादिभिः संयुतैरेवं जैनमुनि समुन्नतपदारूढं भवेन्नान्यथा ॥ ५८ ॥ स्वातत्र्यं समवाप्य चात्सनिहिता शक्तिः समाश्रीयतां, चारित्रं च निरीहता सरलता सत्य निवासं वने । एवं संयमता क्षमत्वमनिशं सत्याग्रहत्वं तथा, इत्यादेवलमुद्विभाव्य सकलं खातव्यसश्चिन्तनम् ॥ ५९ ॥ यत्रानन्तसुख सवल्यनुदितं तां पद्धतिं गच्छत, · श्राद्धानां भवनं त्यजन्तु मुनयोऽरण्यं गुहां चेच्छत । स्थित्वा तत्र सुसंयमं प्रकुरुत. नान्योऽस्ति पन्थाऽपरः, सर्वसिन् विषये भवन्तु निपुणाः पारंगताः स्युः पुनः ॥६०॥ भगवद्वीरजिनस्य जन्मभवनं नित्यं अमन्त्वाहिताः, शीताद्यन्वितदेशमार्गपथिको भूत्वा महावेदना । सोदव्या च 'महोष्णदेशज