________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३८७
समुत्पद्यते । तद्धासे च कलङ्कितं जिनमतं निष्ठा ततो,भावना, तस्माद्दोषसमुच्चयापनयने चित्तं समाधीयताम् ॥ ३८॥ अस्माकं यदि बोधमस्त्यवनतेर्मानापमानस्य च, पातस्यैव च वाऽवहेलनजनेर्जाता पराकाष्ठता । लव्धज्ञानवलेऽपि कुम्भश्रवसो निद्रालयाः शेरते, विद्युत्तेजसममिजं किमु पुनर्भानूदये तिष्ठति ॥ ३९ ॥ अत्याचारसमुद्भवे च निखिलं नष्टं च भव्यात्मनां, सर्वापारमयी क्रियापि विपुला नष्टा तथा भावना । शास्त्राणां पठनं प्रणष्टमधिकं जैनावतारे मुनौ, किं कर्तव्यसतः परं मुनिवराः सञ्चिन्तयध्वं हृदा ॥४०॥ शिक्षार्थ बहुशो जनैर्विरचिताः पाठालयाः कालया, नो वा साधुगणैश्च विश्वविदितं सस्थापितं वा क्वचित् । विद्यापीठमनल्पकं यतिवरांश्छात्राः पठेयुर्मुदा, ज्ञानाभ्यासकरा नयन्ति सकलं धर्मादिकं श्रेयसे ।। ४१ ॥ धर्म नामिरुचिर्गुरौ न नियतिर्विद्याश्रमे नो मतिः, तत्सूत्रे पठनादरो न हि रतिः सद्दे मुनीनां तथा । न्यायान्यायविचारणे न च गतिर्योगाश्रमे नादरः, श्रेयो नश्च कथं भवे. दनुदिनं चेतः परं क्षुभ्यति ॥ ४२ ॥ मोहेनाधिकतृष्णया च. महति सञ्जायते नः क्षतिः, वर्द्धन्ते ममतादयोऽहितकरा ज्ञानं ततः क्षीयते । तत्क्षीणे जिनधर्मशर्मा विलयं यास्यत्यथो. भावना, निष्ठा सूत्रसमुद्भवा सुरगुरौ लोके कथं स्यास्थितिः ॥ ४३ ॥ रागद्वेषविवर्धनेन च मनो न स्यात् स्थिरं चञ्चलं, तद्रोधानयनं विना न विषयाः शाम्यन्ति योगाश्रयाः । यावत्कर्मनिरोधनं न हि भवेत्तावत्कथं भावुकं, ज्ञात्वैवं परिहृत्य रागविषयं सांघ वलं सेव्यताम् ॥ ४४ ॥ गर्तेऽशान्तिमये वयं निपतिताः कश्चिवत्प्रबन्धो न हि, सर्वाधारजिनेश्वरोपकरणे नो विस्मृतियोग्यता । दत्तं तेन ततोऽखिलं च विषयं संलब्धवन्तो मुदा, तत्सर्व कथमन्यथापहरणं कुर्वन्ति चान्ये नराः ॥ ४५ ॥ सामाजस्य सुरक्षणं