________________
३८६
वीरस्तुतिः। " मतभेदकारकमिदं चेतस्ततो धावति । विद्याऽपि हसते तथाप्यनयतो धर्मो विल्लुप्तो भवेन्न्यायान्यायविचारदुर्बलतरो जातोऽधुना, वुध्यताम् ॥ ३१ ॥ जातोऽयं मतभेदमेदकवशादाचारमेदोऽपि'च. संख्या त्रिंशतितोऽपि जातमधिकं किं वर्णयामो वयम् । साम्प्रादायिकमेदवेशकरणादाचारभेदोऽपि च, : ज्ञात्वैवं शमसाधनेऽनुदिवसं धर्मे प्रवृत्तिर्दमे ॥ ३२ ॥ दृष्ट्वमं विषयं च कस्य न मनस्तोदं हितेच्छावतां प्रामोत्यन्तमनन्तशासनवतां केषां मनस्स्तोकताम् । यात्याधीरतया च हेति सुमहच्छब्दः समुत्पद्यते, जाते सत्यपि साधुचेतसि पुनर्नोत्पद्यते भावना ॥ ३३ ॥ तद्दौर्बल्यमहत्तरं न कुरुते प्रत्येकमत्रान्तरे, सर्वेषां मनसा विचारकरणे नो भेदभावोऽधुना । वासं नो कुरुते परस्परमहो सम्मेलनं नैकतां, नान्येषां हितमीहते शुभधिया कश्चिन्नरः प्रेमतः, दृष्ट्वा चोन्नतकं पदं परजनस्यार्ता भवेयुर्जनाः ॥ ३४ ॥ केषां ज्ञानोपलब्धिर्न भवति सुतरां नास्ति शिक्षोपलब्धिस्त्यक्ता सेवापि नित्या निजमुनिचरणाम्भोजयोः साधुवर्यैः । सेवाधर्मापलापोऽजनि जनहृदयात्स्वमतुल्यो नराणां, क्रोधाविष्टैश्च छिन्नं प्रतिदिनमखिलं सभ्यमूलं विहिौः ॥ ३५ ॥ योऽन्येषां धर्मलोपे प्रबलबलमथो धारयित्वा प्रवृत्तः, प्राप्तुं, शिक्षाविभागे प्रचुरसमवलं संबिभर्तुं समर्थः । सोऽनर्थ स्फोटयित्वा रिपुदलगहनं दग्धुमनिखरूपः, कार्य तस्यापि नित्यं वितरति समये नामिमानप्रयोगः ॥ ३६॥ सम्मेले विलयं गते च कियती सम्भावना दुर्दशा, जातोऽहं पतितो भवे च कियती चाघातसंवेदना । यक्ष्मा मे महती तृतीयजवनी क्रान्तातिदुःखादरा, हा किश्चिन्नहि मेस्ति तद्विगणना कार्ये प्रसिद्ध सति ॥.३७ ॥ मानक्रोधपरिग्रहोदयवशाद्धर्मक्षयो जायते, तत्क्षीणे जिनदेवशासनबले हास: