________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३८५ सकलेन्द्रियैः सह ततः शान्तं प्रयास विना ॥ २३ ॥ पश्चाच्छान्तिगतं मनो न विषये लनं कदाचिद्भवेत्पूर्वाचार्य्यवरैः सुसंयमरतैरित्येवमुक्तं पुरा । साधूनां जगदन्तरायशमने मोक्षाप्तये साधनं, हित्वाऽशान्तिकरान् समस्तविषयांश्चेतो गिरौ स्थाप्यताम् ॥ २४ ॥ कामिन्याः कनकात्कषायविषयाचे साधवो विभ्यति, जीवात्राणकरादसत्यवचनादेज्ञानकृष्णोरगात् । खाद्वन्नाशनतः परिग्रहरताचे भव्यभावाशया, लोके भव्यजनानवन्ति सततं सद्बोधतत्वामृतैः ॥ २५ ॥ तेजस्तस्य प्रकाशतां गतमदो भव्याशयानां हृदि, काण्ड भीषणवत्त्वमत्र गहन सस्थापित संयमे । जैनाचार्य्यवरैः परस्परमथो संस्थाप्य चैक्य बल, संयुक्ताखिलशत्यमोघसहिता संघादिविद्युत्पमा ॥२६॥ विद्युच्छक्तिरिखारविन्दहृदये प्रोद्भासिता येन नः, सचे शक्तिमदोच्चयोऽतिकृपया जाता यतश्कता । तां विस्मृत्य च मोहमानममताक्रान्ता वय दुःखिनस्तामुद्भावयितुं मुहुर्यतिवरा यले मनो धीयताम् ॥ २७ ॥ पूर्वाचार्यगणैः परस्परमदश्चैक्यं सुसंस्थापित, शच्यानन्तप्रवाहसङ्घतडितः शक्तिः समुत्पादिता। वीरं शासनमेव निम्नपतित येनोद्धृतं शान्तित, एतावन्नहि किन्तु शासनवरं संवर्द्धितं न्यायतः ॥ २८ ॥ योगासक्तषियो जिने न्द्रमृदुलाम्भोजांघ्रिसेवारता, मिथ्यात्वादिनिरस्तसर्व विषयाः कारुण्यवन्तो दयाम् । धृत्वा चेतसि वो निघाय च गुरोनिद्वपादाम्बुजं, व्याख्यानाय निबन्धरूपममलं ह्याक्रन्दनाख्यं ब्रुवे ॥ २९॥ ॥ इति प्रस्तावना ॥ अद्याऽनद्यमयेक्षते च महती हानिः समाजस्य च, भाग्यात्मन्दमयादुतावरयुगाद्यच्छासनाख्यं बलम् । क्षीणत्वं प्रतिपद्यतेऽनुदिवसं न ज्ञायते कारणं, द्वन्द्वारम्भविधौ च कष्टमधिकं संवर्धते हानिकृत् ॥ ३०॥ ईर्षाकारणतो न कोऽपि कमपि ब्रूते न सम्मन्यते, दृष्ट्वं
वीर. २५