________________
३८४ . , , वीरस्तुतिः। । संघवलं प्रतापसहितं कार्य सुवाक्यार्चनमीर्षाशून्यवलं विघातकवलं तत्वात्मकं धार्यताम् ॥ १६ ॥ धैर्येण क्षमया विभान्ति मुनयः कब्जैयथाम्ब्वाशयाः, सत्यासत्यविमर्शनेन विषयासक्तं मनः शाम्यति। तच्छान्तेः सकलेन्द्रियाणि विषमाच्छाम्यन्त्यसद्भावनात् , साक्षात्कारतरं भवेद्धदि पुना रूपं परस्यात्मनः ॥ १७ ॥ दृश्यादृश्यभिदापवारणकरे लोलायुषश्चेतसा, सौत्राः सच्चरितामृतादिविलसच्छास्त्राश्रये स्थीयताम् । चार्वाचारविचारसारपटवो येनाखिलाऽमीष्टदा, तस्मिन् ज्ञानमये जगत्यनुदिनं सत्संयमैरन्विताः ॥ १८ ॥ रुद्धं सर्वमनर्थकं, भगवता हिंसावलं नर्कदं, साधूनां प्रबलारिनाशनकरं साध्वीगणानां तथा । तीव्र भावकपायकादिशमनं तत्वानुरूपं महत्तीर्थ स्थापितवान् खनामविजितं सार्थक्यमेवं कृतम् ॥ १९ ॥. तत्कालीनगुणानुरूपमभिधां वोधात्मिकी नूतनां, संघे संस्थितिमेकतां सुमधुरां कृत्वा स्वधार्थिने । योग्यत्वं समये विधाय हृदये जाता यतो योगिनः, सूत्रोक्ते वचने कुरुध्वमनिशं विश्वासमेवं मुहुः ॥ २०॥ येनोद्धातवलं च हिंसकवलं पूर्णात्मना सम्मुखो, मूत्वा नष्टतरं कृतं :सुमनसा रुद्धं च मिथ्याबलम् । शुद्धश्रावकश्राविकागणमयं संस्थाप्य तीर्थ शुमं, श्रीतीर्थङ्करनाम खं सुललितं , सार्थक्यमेवाकरोत् ॥ २१ ॥ तत्काले जनता खधर्मनिरता सद्धे सदा सम्मता, भावैक्यस्य रसस्य पानमसकृद्यत्पायितं प्रेमतः । आज्ञा विश्वहिता सुबोधजननी संस्थापिताऽमानदा, धैर्य्य शौर्य्यमथावलम्ब्य सुखदं प्रद्योतितं नो मुदे ॥ २२ ॥ धैर्य्यादेबलधारणं च विषयासक्तेन्द्रियाणां गणं, रुवा योगतपोऽसिना च जगतो जन्यं महानर्थदम् । दुःखापायकरे तम्रोऽपहरणे ज्ञाने मनो दीयतां, स्याचित्र . १ विगतं घातं यस्मात् । २ सूत्रस्य भावाः सौत्रा.।