________________
३८२
वीरस्तुतिः।
॥ १ ॥ संसारोरंगवैनतेयसदृशो विज्ञानकोशालयः, कल्पद्रुजिनाटवेश्च हुतभुग ज्वालाजटालावृतः । वीजं धर्मतरोश्च विश्वजलधौ पोतो. ऽस्ति यस्सेविनां, ध्येयस्तं मुनयो भजन्तु नितरामानन्दकन्दालयम् ॥ २ ॥ पञ्चक्लेशनिरासवासरमणिविज्ञानवाराम्बुधिर्भव्याभीष्टशतप्रपूरणविधौ चैतन्यचिन्तामणिः । सज्जैनेप्सितसाधुभक्तिनलिनीव्याक्लेशहेतूदयः, सोऽस्माकं कुरुतात्कषायशमनं श्रीमाजिनेन्द्रः प्रभुः ॥ ३ ॥ जैना भिक्षुवराः ! पिताऽस्ति परमोऽस्साकं हि वीरो जिनो, यो दीपोत्सवसंज्ञके शुभदिने निर्वाणतामाप्तवान् । योऽन्ते नो निगमागमादिजनितज्ञानात्मके चक्षुषी, प्रादात्संयमिनो विधाय सुखदं ध्यायन्त्वतस्तं विभुम् ॥ ४ ॥ धर्मज्ञानचरित्रसंयमतपोयोगाङ्गभावानदात्, यो नो जैनमतावरोधनकरप्रध्वंसनार्थ विभुः । हित्वा तॉश्च वयं भवाब्धिपतिताः किञ्चिन्न कर्तुं क्षमास्तस्मादुक्तविधौ समाहितधियो यत्नं च कुर्मो मुहुः ॥ ५ ॥ मायाजालमपास्य चात्मनि मनस्संघीयते योगिभिर्योगाभ्यासतपोऽपरिग्रहवलात्सत्सङ्गतेः संवरात् । ते विघ्ना जिनपादपद्मरजसः सेवानुरक्तस्य च, तस्मात्तान् परिहत्य चैक्यकरणे चेतस्समाधीयताम् ॥ ६ ॥ चक्रे द्वादशधा तपोवलमदो दत्वा तपस्यान्वितान् , द्वारा गुप्तधिया विवेकपटवो जाता विरक्ता यतः । शीलादेनिलयाश्च चेतनगुणैरात्मीयभावाश्रयास्तस्मादात्मविचारणं मुनिवरा ह्यष्टाङ्गसिद्धिप्रदम् ।। ७ ।। स्याद्वादो विदुषां हिताय गदितोऽनेकान्तवादस्तथा, सिद्धान्तप्रतिपादनं मतभिदां येनाक्षयं जायते । सर्व तच्च विहाय मोहजलधौ मना वयं दुस्तरे, रागद्वेषझषाकुले च मुनयो भव्यं कुतो नो भवेत् ॥ ८ ॥ मायानिर्मितशोकसारविषये वैराग्यमेवाभयं, : १ मिथ्याऽव्रतकषायप्रमत्ताशुभयोगासवादयः ।