________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
३८१
हेतुविहितविचित्रपरिणतिभिः, मतिश्रुतावधिमनःपर्यायकेवलैः पञ्चतयीमवस्थामवगाहमानस्य सकलमङ्गलविधायिनः पञ्चपरमेष्ठिपुरसरस्य भगवतः सम्यग्ज्ञानरत्नस्य पौनःपुन्येनादरणं करोमीति स्वाहा। अपि च
नेत्रं हिताहितालोके, सूत्रं धीसौधसाधने ।
पात्रं पूजाविधेः कुर्वे, क्षेत्रं लक्ष्म्याः समागमे ॥ १॥ ' [सम्यक्चरित्रम् ] ॐ यत्सकललोकालोकावलोकनप्रतिबन्ध कान्धकारविध्वंसनं, अनवद्यविद्यामन्दाकिनीधरं, अशेषसत्वोत्सवानन्दचन्द्रोदयं, अखिलबतगुप्तिसमितिलतारामपुष्पाकरसमयं, अनल्पफलप्रदायितरुःकल्पद्रुमप्रसवभूमिमस्मयोपशमसौमनस्यवृत्तिधैर्यप्रधानैरनु-- ष्ठीयमानमुशन्ति सद्धीमनाः परमपदप्राप्तेः प्रथममिव सोपानं, तस्य पञ्चतयात्मनः सर्वक्रियोपशमानिशपावनस्य, सकलमङ्गलविधायिनः पञ्चपरमेष्ठिपुरःसरस्य भगवतः सम्यक्चरित्ररतस्य सम्यगवधारणं करोमीति वाहा । अपि च
धर्मयोगिनरेन्द्रस्य, कर्मवैरिजयार्जने । शर्मकृत्सर्वतत्वानां, धर्मधीवृत्तमाश्रये ॥१॥ जिनसिद्धसरिदेशकसाधुश्रद्धानवोधरनानाम् ।' कृत्वाष्टतयीं स्मृति विदधामि ततः स्तवं युक्त्या ॥२॥
अथ ममाक्रन्दनकाव्यम् ।
-
- श्रीमद्वन्द्यपदारविन्दयुगलो ध्यानैकवेद्योऽस्ति यो, 'व्याप्तं येन चराचरात्मकमिदं क्षीरं यथा'सर्पिषा । यद्भासा तरणिर्विभाति दहनश्चेन्दुर्निशान्धापहस्तं वन्दे मनसा गिरा च शिरसा जैनेड्यमीशं जिनम्