________________
३८० वीरस्तुतिः। . .
बोधापगाप्रवाहेण, विध्यातानगवह्नयः।
विध्याराध्याघ्रयः सन्तु, साध्यबोधाय साधवः ॥१॥ ., [सम्यग्दर्शनम् ] ॐ जिनजिनागमजिनधर्मजिनोक्तजीवादितत्वावधारणद्वयविजृम्मितनिरतिशयाभिनिवेशाधिष्ठानासु, प्रकाशितशं- . काप्राकाम्यावहादनकुमतार्तिशल्योद्धारासु, प्रशमसंवेगानुकम्पाऽऽस्तिक्यस्तंभसंभृतासु, स्थितिकरणोपगृहनवात्सल्यप्रभावनोपचरितोत्सवसमर्यासु, अनेकत्रिदशविशेषनिर्मापितभूमिकासु, सुकृतचेतःप्रासादपरम्परासु कृतक्रीडाविहारमपि च, यन्निसर्गान्महामुनिमनःपयोधिपरिनितमशेषभरतैरावतविदेहवर्षधरचक्रवर्तिचूडामणिकुलदैवतं, अमरेश्वरमतिदेवतावतंसकल्पवल्लीपल्लवं, अम्बरचरलोकहृदयैकमण्डनं, अपवर्ग पुरप्रवेशागण्यपण्यात्मसात्करणसत्यंकारं, अनुल्लङ्घयदुर्घनघटादुर्दिनेप्वपि जन्तुषु, ज्योतिर्लोकादिगतिगर्तपातनमकाण्डमेदनमामनन्ति मनीषिणस्तस्य संसारपादपोच्छेदप्रथमकारणस्य सकलमंगलविधायिनः पञ्चपरमेष्ठिपुरःसरस्य भगवतः सम्यग्दर्शनरत्नस्य पुनः पुनः शुद्धि करोमीति खाहा। अपि च
मुक्तिलक्ष्मीलतामूलं, युक्तिश्रीवल्लरीवनम् ।
भक्तितोऽहामि सम्यक्त्वं, भुक्तिचिन्तामणिप्रदम् ॥१॥ [सम्यग्ज्ञानरत्नम् ] ॐ यन्निखिलमुवनतार्तीयलोचनं, आत्महिताहितविवेकयाथास्याववोधसमासादितसमीचीनभावं, अधिगमसम्यक्त्वरत्नोत्पत्तिस्थानं, अखिलाखपि दशासु क्षेत्रज्ञखभावसाम्राज्यपरमलाञ्छनं, अपि च यस्मिन्निदानीमपि नदीस्नातचेतोमिः सम्यगुपाहितोपयोगसमार्जने घुमणिमणिदर्पण इव साक्षाद्भवन्ति ते ते भावकसम्प्रत्ययाः खभावक्षेत्रसम्रयविप्रकर्षिणोऽपि भावास्तस्यात्मलामनिवन्धभ्रय