________________
-
-
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३७९ विचार्य सर्वमैतिह्यमाचार्यकमुपेयुषः।। ।' आचार्यवान मि, सञ्चार्य हृदयाम्बुजे ॥१॥
[उपाध्यायपरमेष्ठी] ॐ श्रीमद्भगवदर्हद्वदनारविन्दविनिर्गतद्वादशांगचतुर्दशपूर्वप्रकीर्णविस्तीर्णश्रुतपारावारपारङ्गमस्य, अपारसम्परायारण्यविनिर्गमानुपसर्गमार्गणनिरतविनेयजनशरण्यस्य दुरन्तैकान्तवादमदमषीमलिनपरवादिकरिकण्ठीरवोत्कण्ठकण्ठारवायमाणप्रमाणनयनिक्षेपानुयोगवाग्व्यतिकरस्य, श्रवणग्रहणावगाहनावधारणप्रयोगवाग्मित्वकवित्वगमिकशक्तिविस्मापितत्रिततनरनिलिम्पाम्बरचरचक्रवर्तिसीम-: न्तप्रीतपर्य्यस्तोत्सस्रक्सौरभाधिवासितपादपीठोपकण्ठस्य व्रतविधानवयहृदयस्य भगवतो रत्नत्रयपुरःसरस्य उपाध्यायपरमेष्ठिनो भूयो भूयः स्मृति करोमीति खाहा । अपि च
अपास्तैकान्तवादीन्द्रानपरागमपारगान् । : उपाध्यायानुपासेहमुपायाय श्रुताप्तये ॥१॥ . [सर्वसाधुपरमेष्ठी] ॐ विदितवेदितव्यस्य बाह्याभ्यन्तराचरणकरणत्रयविशुद्धित्रिपथगापगाप्रवाहनिर्मूलितमनोजकुजकुटुम्बाडम्बरस्य अमराम्बरचरनितम्बिनीकदम्बनदप्रादुर्भूतमदनमदमकरन्ददुर्दिनविनो-, दारविन्दचन्द्रायमाणोदितोदितव्रतवातापहसितार्वाचीयकामनचरित्रच्युतविरञ्चिविरोचनादिवैखानसरसस्य, अनेकशस्त्रिभुवनक्षोभविधायिमिर्म
नोगोचरातिचरैराश्चर्य्यप्रभावभूमिभिरनवधारितविधानस्तैस्तैर्मूलोत्तरगुण___ आमणीमिस्तपःप्रारम्भैः सकलैहिके सुखसाम्राज्यवरप्रदानावहितायाताव
वीरितविसितोपनतवनदेवतालकालिकुलविलुप्यमानचरणसरसिरुहपरागस्य निर्वाणपथनिष्ठितात्मनो रत्नत्रयस्य पुरःसरस्य भगवतो लोके सर्वसाधुपरमेष्ठिनो भूयो भूयः स्मृति करोमीति खाहा । भपि च--
पा
-
-